SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ स्तम्भद्वारशाखादि, गन्धाङ्गानि-वालकप्रियङ्गुपत्रकदमनकत्वचन्दनोशीरदेवदार्वादीनि, वस्त्राणि-वल्कलकर्पासमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालतीविचकिलादयः, ध्मापनं-दाहो भस्मसात्करणमिन्धनैः, वितापनं-शीताभ्यर्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्, तैलविधानं-तिलातसीसर्षपेङ्गदी-ज्योतिष्मतीकरजादिभिः, उद्योतो-वर्तितृणचूडाकाष्ठादिभिरिति ।। एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसञ्जिहीर्षुराह एएहिं कारणेहिं हिंसंति वणस्सई बहू जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥१४८ ।। . एतैः' गाथाद्वयोपात्तैः कारणैः' प्रयोजनैः 'हिंसन्ति' व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहन वनस्पतिसमारम्भिण: पुरुषाः, किंभातास्त इति दर्शयति-‘सातं' सुखं तदन्वेषिणः ‘परस्य' वनस्पत्यायेकेन्द्रियादेः ‘दुःखं बाधामुत्पादयन्ति ।। साम्प्रतं शस्त्रमुच्यते-तच्च द्विधाद्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽहकप्पणिकुहाणि (डि)असियगदत्तियकुद्दालवासिपरसू अ । सत्थ वणस्सईए हत्था पाया मुहं अग्गी ॥१४९ ।। कल्प्यते-छिद्यते यया सा कल्पनी-शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं -दात्रं, दात्रिका-प्रसिद्धा एव, कुद्दालकवासिपरशवश्च, एते वनस्पतेः शस्त्रं, तथा हस्तपादमुखाग्नयश्च इत्येतेत्सामान्यशस्त्रमिति ।। विभागशस्त्राभिधित्सयाऽऽह किंचि सकायसत्थं किंचि परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥१५० ।। किञ्चित् स्वकायशस्त्रं-लकुटादि किञ्चिच्च परकायशस्त्रंपाषाणाग्न्यादि तथोभयशस्त्रं-दात्रदात्रिकाकुठारादि, एतद् द्रव्यशस्त्रं भावशस्त्रं पुनरसंयमः दुष्पणिहितमनोवाक्कायलक्षण इति ।। श्री आचारांग सूत्रम् (१०६)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy