________________
एवं मविज्जमाणा हवंति लोया अणंता उ ॥१४४॥
प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेद, एवं यदि नाम कश्चित्साधारणजीवराशिं लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत् तत एवं मीयमाना भवन्ति लोका अनन्ता इति ।। इदानीं बादरनिगोद-परिमाणाभिधित्सयाऽऽह
जे बायरपजत्ता पयरस्स असंखभागमित्ता ते । सेसा असंखलोया तिन्निवि साहारणाणंता ॥१४५ ।।
ये पर्याप्तकबादरनिगोदास्ते संवर्तितचतुरश्रीकृतसकललोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुन: प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽसङ्ख्येयगुणाः, शेषास्त्रयोऽपि राशयः प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशपरिमाणाः, के पुनस्त्रय इति ?, उच्यन्ते, अपर्याप्तकबादरनिगोदा अपर्याप्तसूक्ष्मनिगोदा: पर्याप्तकसूक्ष्मनिगोदा:, एते च क्रमशो बहुतरका दृष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणं, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति ॥ परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह
आहारे उवगरणे सयणासण जाण जुग्गकरणे य । आवरण पहरणेसु अ सत्थविहाणेसु अ बहुसुं ॥१४६॥
आहारः-फलपत्रविशलमूलकन्दत्वगादिनिर्वर्त्यः, उपकरणं व्यजनकटकवलकार्गलादि, शयनं-खट्वाफलकादि, आसनम्-आसन्दकादि, यानं-शिबिकादि, युग्यं-गन्त्रिकादि, आवरणम्-फलकादि, प्रहरणं-लकुटमुसुण्ढ्यादि, शस्त्रविधानानि च बहुनि तन्निर्वानि, शरदात्रखड्गक्षुरिकादिगण्डोपयोगित्वादिति । तथाऽपरोऽपि परिभोगविधिः, तदर्शनायाह
आउज्ज कट्ठकम्मे गंधंगे वत्थ मल्लजोए य । झावणवियावणेसु अ तिल्लविहाणे अ उज्जोए ॥१४७ ।।
आतोद्यानि-पटहभेरीवंशवीणाझल्लर्यादीनि, काष्ठकर्म-प्रतिमा
श्री आचारांग सूत्रम्
(१०८)