________________
अनेकप्रकाराश्चान्येऽपीत्थमवगन्तव्या इति ।। सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वं प्रतिपिपादयिषुराहएगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं ।
पत्तेयसरीराणं दीसंति सरीरसंघाया ।।१४२ ।।
एकजीवपरिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुर्ग्राह्यः, तथा विससृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्वं चक्षुर्दश्यत्वं च, द्वित्रिसंख्येयासंख्येयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ।। किमनन्तानामप्येवं ?, नेत्यत आहइक्कस्स दुण्ह तिण्ह व संखिजाण व न पासिउं सक्का । ... दीसंति सरीराइं निओयजीवाणऽणंताणं ।।१४३ ।।
नैकादीनामसंख्येयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, कुतः ?, अभावात्, न ह्येकादिजीवपरिगृहीतान्यनन्तानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं तर्जुपलभ्यास्ते भवन्तीति दर्शयति-दृश्यन्ते शरीराणि बादरनिगोदानामनन्तजीवानां, सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उक्तं च-'गोला य असंखेजा हंति णिओआ असङ्ख्या गोले । एक्केक्को य निओए अणंतजीवो मुणेयव्वो' (गोलाश्चासङ्ख्यया भवन्ति निगोदा असङ्ख्येया गोले । एकैकश्च निगोदोऽनन्तजीवो मुणितव्यः ॥१॥) एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि-वनस्पतीनां संवृता योनिः, सा च सचित्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाच्च, तथा प्रत्येकतरूणां दश लक्षा योनिभेदानां; साधारणानां च चतुर्दश, कुलकोटीनां, द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति । उक्तं विधानद्वारम्, इदानीं परिमाणमभिधीयते-तच्च प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह. पत्थेण व कुडवेण व जह कोइ मिणिज्ज सव्वधन्नाइं ।
श्री आचारांग सूत्रम्
(१०७)