________________
योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते, स एव पूर्वको बीजजीवोऽन्यो वाऽऽगत्य तत्रोत्पद्यते, एतदुक्तं भवति-यदा जीवेनायुषः क्षयाबीजपरित्याग: कृतो भवति, तस्य च यदा बीजस्य क्षित्त्युदकादि-संयोगस्तदा कदाचित्स एव प्राक्तनो जीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीव: परिणमते स एव प्रथमपत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे इतियावत्, प्रथमपत्रक च याऽसौ बीजस्य समुच्छ्वनावस्था भूजलकालापेक्षा सैवोच्यत इति, नियमप्रदर्शनमेतत्, शेषं तु किशलयादि सकलं न मूलजीवपरिणामावि
र्भावितमेवेत्यवगन्तव्यमिति ।। यत उक्तम्-‘सव्वोऽवि किसलओ खलु उग्गममाणो अणन्तओ भणिओ'इत्यादि (सर्वोऽपि किशलयः खलूदुगच्छन्न न्तको भणित:)।। सांप्रतमपरं साधारणलक्षणमभिधित्सुराह___ चक्कागं भज्जमाणस्स गंठी चुण्णघणो भवे । पुढविसरिसभेएणं अणंतजीवं वियाणेहि ॥१३९॥
यस्य मूलकन्दत्वक्पत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकार: समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थि:-पर्व भङ्गस्थानं वा 'चूर्णेन' रजसा 'घनो' व्यापतो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकायं विजानीहि ।। तथा लक्षणान्तरमाह___ गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं ।
जं पुण पणट्ठसंधिय अणंतजीवं वियाणाहि ॥१४० ।। __ स्पष्टार्था ।। एवं साधारणजीवान् लक्षणत: प्रतिपाद्य सम्प्रति नामग्राहमनन्तात् वनस्पतीन् दर्शयितुमाहसेवालकत्थभाणि(छहाणी)यअवए पणए य किंनए य हढे(हे) । एए अणंतजीवा भणिया अण्णे अणेगविहा ।।१४१॥
सेवालकत्थभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता
श्री आचारांग सूत्रम्
(१०)