SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाञ्जि भवन्ति, तथा च प्रयोग:जीवशरीराणि वृक्षाः, अक्ष्याधुपलब्धिभावात् पाण्यादिसङ्घातवत्, तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्घातवदेव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तम्-'वृक्षाद-योऽक्षाधुपलब्धिभावात्पाण्यादिसङ्घातवदेव देहाः । तद्वत्सजीवा अपि देहताया:, सुप्तादिवत् ज्ञानसुखादिमन्तः ॥१॥' 'शेषा' इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या सति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमेव ।। साम्प्रतं साधारणलक्षणमभिधित्सुराह ' साहारणमाहारो साहारण आणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥१३६ ।। समानम्-एकं धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणा: तेषां साधारणानाम्-अनन्तकायानां जीवानां साधारणं' सामान्यमेकमाहारग्रहणं तथा प्राणापानग्रहणं च साधारणमेव, एतत्साधारणलक्षणम्, एतदुक्तं भवति-एकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तस्तथैकस्मित्रुच्छ्वसिते नि:श्वसिते वा सर्वेऽप्युच्छ्वसिता नि:श्वसिता वेति ।। अमुमेवार्थं स्पष्टयितुमाह___ एगस्स उ जं गहणं बहूण साहारणाण ते चेव । जं बहुयाणं गहणं समासओ तंपि एगस्स ॥१३७ ।। एको यदुच्छ्वासनि:श्वासयोग्यपुद्गलोपादानं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो ग्रहणमकापुरकस्यापि तदेवेति ॥ अथ ये बीजात्प्ररोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आह जोणिब्भूए बीए जीवो वक्कमइ सो व अन्नो वा । जोऽवि य मूले जीवो सो च्चिय पत्ते पढमयाए ॥१३८॥ अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, बीजस्य हि द्विविधावस्थायोन्यवस्था अयोन्यवस्था च, यदा श्री आचारांग सूत्रम् (१०५)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy