________________
नाणाविहसंठाण दीसंती एगजीविया पत्ता । खंधावि एगजीवा तालसरलनालिएरीणं ॥१३३ ।।
नानाविधं-भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनां, नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति ।। साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह
पत्तेया पज्जत्ता सेढीए असंखभागमित्ता ते । लोगासंखप्पजत्तगाण साहारणाणंता ॥१३४ ।। प्रत्येक तरुजीवाः
पर्याप्तका: सवति त च तु, र स्री कृ त लो क श्रेण य स य य - भागवाकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुनर्बादरतेजस्कायपर्याप्तकराशेरसङ्ख्येयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरूजन्तवः ते ह्यसङ्ख्येयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवराशेरसङ्ख्येयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिण: पर्याप्तका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात् ?, साधारणा: सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेष:साधारणबादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणा: बादरापप्तिकेभ्य: सूक्ष्मा: अपर्याप्तका असंख्येयगुणास्तेभ्योऽपि सूक्ष्मा: पर्याप्तकाः असंख्येयगुणा सति ।। सम्प्रत्येषां तरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया नियुक्तिकृदाह
एएहिं सरीरेहिं पच्चक्खं ते परूविया जीवा । सेसा आणागिज्झा चक्खुणा जे न दीसंति ॥१३५ ।।
'एतैः पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः ‘प्रत्यक्षं' साक्षात् 'ते' वनस्पतिजीवा: प्ररूपिता:' प्रसाधिताः, तथाहि-न ह्येतानि
श्री आचारांग सूत्रम्
(१०४)