Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 82
________________ पन्थाः महांश्चासौ वीथिश्च महावीथि:-सम्यग् दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैः प्रहतः, तं प्रति प्रह्वाः-वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्श्य तजनितमार्गविसम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्त्तयिष्यते ।। उपदेशान्तरमाह-लोकं चेत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात्, तथापि भगवदाज्ञेयमिति श्रद्धातव्यमित्याह लोगं च आणाए अभिसमेच्चा अकुओभयं ।।सू० २१ ॥ अत्रादिकृतत्वादप्कायलोको लोकशब्देनाभिधीयते, तमप्कायलोकं चशब्दादन्यांश्च पदार्थान् ‘आज्ञया' मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वाज्ञात्वा, यथाऽप्कायादयो जीवा:, इत्येवमवगम्य न विद्यते कुतश्चिद्धेतो:केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभय:-संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा ‘अकुतोभयः' अप्कायलोको, यतोऽसौ न कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाशयाऽभिसमेत्यानुपालयेद्रक्षेदित्यर्थः ।। अप्कायलोक-माज्ञया अभिसमेत्य यत्कर्त्तव्यं तदाह से बेमि, णेव सयं लोगं अब्भाइक्खिज्जा, णेव अत्ताणं अब्भाइक्खिजा, जे लोयं अब्भाइक्खइ, से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खइ ॥ सू० २२।। सोऽहं ब्रवीमि, से शब्दस्य युष्मदर्थत्वात्त्वां वा ब्रवीमि, न स्वयम्' आत्मना ‘लोकः' अप्कायलोकोऽभ्याख्यातव्यः, अभ्याख्यानं नामासदभियोगः, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रं, घृततैलादिवत्, एषोऽसदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात्, स्यादारेकानत्वेतदेवाभ्याख्यानं यदजीवानां जीवत्वापादनं नैतदस्ति, प्रसाधितमपां प्राक् सचेनत्वं, यथा हि अस्य शरीरस्याप्रत्ययादिभिर्हेतुभिरधिष्ठाताऽऽत्मा व्यतिरिक्तः प्राक् प्रसाधित एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च It आचारांग सूत्रम् (०८१)

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146