Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
तद्यथा-लोहीनिहस्तुभायिकाअश्वकर्णी-सिंहकर्णीशृङ्गबेर (रा) मालुकामूलककृष्णकन्दसूरणकन्दककोलीक्षीर-काकोलीप्रभृतयः ।। सर्वेऽप्येते संक्षेपात् षोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा इत्याह__ अग्गबीया मूलबीया खंधबीया चेव पोरबीया य । बीयरुहा समुच्छिम समासओ वणसईजीवा ॥१३० ।।
तत्र कोरिण्टकादयोऽग्रबीजाः, कदल्यादयो मूलबीजाः, निहुशल्लक्यरणिकादयः स्कन्धबीजा:, इक्षुवंशवेत्रादय: पर्वबीजाः, बीजरुहा: शालिव्रीह्यादय, सम्मूर्च्छनजा: पद्मिनीशृङ्गाटकपाठशैवलादयः, एवमेते समासात्तरुजीवा: षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यं ।। किं लक्षणा: पुन: प्रत्येकतरवो भवन्तीत्यत आहजह सगलसरिसवाणं सिलेसमिस्साण वत्तिया वट्टी ।
पत्तेयसरीराणं तह हुंति सरीरसंघाया ॥१३१ ।।
यथेति दृष्टान्तोपन्यासार्थः, यथा सकलसर्षपाणां श्लेषयतीति श्लेष:-सर्जरसादिस्तेन मिश्रितानां 'वर्त्तिता' वलिता वर्त्तिः तस्यां च व्रतौ प्रत्येकप्रदेशा: क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योऽन्या-नुवेधभाजोऽपि स्युरित्यतः सकलग्रहणं, यथाऽसौ वर्तिस्तथा प्रत्येकतरुशरीरसङ्घात:, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुगलोदयमिश्रिताः जीवा, पश्चिमार्द्धन गाथाया उपन्यस्त-दृष्टान्तेन सह साम्यं प्रतिपादितं, तथेति शब्दोपादानादिति । अस्मिन्नेवार्थे दृष्टान्तान्तरमाहजह वा तिलसक्कुलिया बहुएहिं तिलेहिं मेलिया संती । - पत्तेयसरीराणं तह हंति सरीरसंघाया ॥१३२॥
यथा वा तिलशष्कुलिका-तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति द्रष्टव्यमिति ।। साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽह
श्री आचारांग सूत्रम्
(१०)

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146