Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 107
________________ योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते, स एव पूर्वको बीजजीवोऽन्यो वाऽऽगत्य तत्रोत्पद्यते, एतदुक्तं भवति-यदा जीवेनायुषः क्षयाबीजपरित्याग: कृतो भवति, तस्य च यदा बीजस्य क्षित्त्युदकादि-संयोगस्तदा कदाचित्स एव प्राक्तनो जीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीव: परिणमते स एव प्रथमपत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे इतियावत्, प्रथमपत्रक च याऽसौ बीजस्य समुच्छ्वनावस्था भूजलकालापेक्षा सैवोच्यत इति, नियमप्रदर्शनमेतत्, शेषं तु किशलयादि सकलं न मूलजीवपरिणामावि र्भावितमेवेत्यवगन्तव्यमिति ।। यत उक्तम्-‘सव्वोऽवि किसलओ खलु उग्गममाणो अणन्तओ भणिओ'इत्यादि (सर्वोऽपि किशलयः खलूदुगच्छन्न न्तको भणित:)।। सांप्रतमपरं साधारणलक्षणमभिधित्सुराह___ चक्कागं भज्जमाणस्स गंठी चुण्णघणो भवे । पुढविसरिसभेएणं अणंतजीवं वियाणेहि ॥१३९॥ यस्य मूलकन्दत्वक्पत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकार: समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थि:-पर्व भङ्गस्थानं वा 'चूर्णेन' रजसा 'घनो' व्यापतो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकायं विजानीहि ।। तथा लक्षणान्तरमाह___ गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जं पुण पणट्ठसंधिय अणंतजीवं वियाणाहि ॥१४० ।। __ स्पष्टार्था ।। एवं साधारणजीवान् लक्षणत: प्रतिपाद्य सम्प्रति नामग्राहमनन्तात् वनस्पतीन् दर्शयितुमाहसेवालकत्थभाणि(छहाणी)यअवए पणए य किंनए य हढे(हे) । एए अणंतजीवा भणिया अण्णे अणेगविहा ।।१४१॥ सेवालकत्थभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता श्री आचारांग सूत्रम् (१०)

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146