Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाञ्जि भवन्ति, तथा च प्रयोग:जीवशरीराणि वृक्षाः, अक्ष्याधुपलब्धिभावात् पाण्यादिसङ्घातवत्, तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्घातवदेव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तम्-'वृक्षाद-योऽक्षाधुपलब्धिभावात्पाण्यादिसङ्घातवदेव देहाः । तद्वत्सजीवा अपि देहताया:, सुप्तादिवत् ज्ञानसुखादिमन्तः ॥१॥' 'शेषा' इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या सति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमेव ।। साम्प्रतं साधारणलक्षणमभिधित्सुराह
' साहारणमाहारो साहारण आणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥१३६ ।।
समानम्-एकं धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणा: तेषां साधारणानाम्-अनन्तकायानां जीवानां साधारणं' सामान्यमेकमाहारग्रहणं तथा प्राणापानग्रहणं च साधारणमेव, एतत्साधारणलक्षणम्, एतदुक्तं भवति-एकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तस्तथैकस्मित्रुच्छ्वसिते नि:श्वसिते वा सर्वेऽप्युच्छ्वसिता नि:श्वसिता वेति ।। अमुमेवार्थं स्पष्टयितुमाह___ एगस्स उ जं गहणं बहूण साहारणाण ते चेव । जं बहुयाणं गहणं समासओ तंपि एगस्स ॥१३७ ।।
एको यदुच्छ्वासनि:श्वासयोग्यपुद्गलोपादानं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो ग्रहणमकापुरकस्यापि तदेवेति ॥ अथ ये बीजात्प्ररोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आह
जोणिब्भूए बीए जीवो वक्कमइ सो व अन्नो वा । जोऽवि य मूले जीवो सो च्चिय पत्ते पढमयाए ॥१३८॥
अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, बीजस्य हि द्विविधावस्थायोन्यवस्था अयोन्यवस्था च, यदा
श्री आचारांग सूत्रम्
(१०५)

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146