________________
पन्थाः महांश्चासौ वीथिश्च महावीथि:-सम्यग् दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैः प्रहतः, तं प्रति प्रह्वाः-वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्श्य तजनितमार्गविसम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्त्तयिष्यते ।। उपदेशान्तरमाह-लोकं चेत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात्, तथापि भगवदाज्ञेयमिति श्रद्धातव्यमित्याह
लोगं च आणाए अभिसमेच्चा अकुओभयं ।।सू० २१ ॥
अत्रादिकृतत्वादप्कायलोको लोकशब्देनाभिधीयते, तमप्कायलोकं चशब्दादन्यांश्च पदार्थान् ‘आज्ञया' मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वाज्ञात्वा, यथाऽप्कायादयो जीवा:, इत्येवमवगम्य न विद्यते कुतश्चिद्धेतो:केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभय:-संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा ‘अकुतोभयः' अप्कायलोको, यतोऽसौ न कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाशयाऽभिसमेत्यानुपालयेद्रक्षेदित्यर्थः ।। अप्कायलोक-माज्ञया अभिसमेत्य यत्कर्त्तव्यं तदाह
से बेमि, णेव सयं लोगं अब्भाइक्खिज्जा, णेव अत्ताणं अब्भाइक्खिजा, जे लोयं अब्भाइक्खइ, से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खइ ॥ सू० २२।।
सोऽहं ब्रवीमि, से शब्दस्य युष्मदर्थत्वात्त्वां वा ब्रवीमि, न स्वयम्' आत्मना ‘लोकः' अप्कायलोकोऽभ्याख्यातव्यः, अभ्याख्यानं नामासदभियोगः, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रं, घृततैलादिवत्, एषोऽसदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात्, स्यादारेकानत्वेतदेवाभ्याख्यानं यदजीवानां जीवत्वापादनं नैतदस्ति, प्रसाधितमपां प्राक् सचेनत्वं, यथा हि अस्य शरीरस्याप्रत्ययादिभिर्हेतुभिरधिष्ठाताऽऽत्मा व्यतिरिक्तः प्राक् प्रसाधित एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च
It आचारांग सूत्रम्
(०८१)