________________
द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्ध्वमवश्यं पातात्, अयं च वृद्धिहान्यवस्थितरूप: परिणाम: केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति । यद्यपि च प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमान: संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणामं भजते, तथा चोक्तम्-‘जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धाए ॥१॥' (यथा यथा श्रुतमवगाहते ऽतिशयरसप्रसरसंयुतमपूर्वम् । तथा तथा प्रह्लादते मुनिर्नवनवसंवेगश्रद्धया ॥१॥) तथापि स्तोक एव तादृक् बहवश्च परिपतन्ति अतोऽभिधीयते ‘तामेवानुपालयेदिति, कथं पुन: कृत्वा श्रद्धामनुपालयेदित्याह- 'विजहे'त्यादि, 'विहाय' परित्यज्य 'विस्रोतसिकां' शङ्का, सा च द्विधा-सर्वशङ्का देशशङ्का च, तत्र सर्वशङ्का किमस्ति आर्हतो मार्गो नवेति (मार्ग उत नेति), देशशङ्का तु किं विद्यन्ते अप्कायादयो जीवाः ?, विशेष्य प्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान्न विद्यन्ते इति वा, इत्येवमादिकामारेकां विहाय सम्पूर्णाननगारगुणान् पालयेत्, य दिवा विस्रोतांसि द्रव्यभावभेदात् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्रोतसां प्रतीपगमनानि, भावविस्रोतांसि तु मोक्षं प्रति सम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरूपाणि, प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय सम्पूर्णानगारगुणभाग् भवति, श्रद्धां वाऽनुपालयेदिति, पाठान्तरं वा विजहित्ता पुव्वसंजोग' पूर्वसंयोग:माता-पित्रादिभिः, अस्य चोपलक्षणार्थत्वात्पश्चात्संयोगोऽपि श्वशुरादिकृतो ग्राह्यस्तं 'विहाय' त्यक्त्वा ‘श्रद्धामनुपालयेदिति मीलनीयं ।। तत्र यस्यायमुपदेशो दीयते यथा 'विहाय विस्त्रोतांसि तदनु श्रद्धानुपालनं कार्य' स एवाभिधीयते-न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह
पणया वीरा महावीहिं ।।सू० २० ।। 'प्रणता' प्रह्वा: ‘वीराः' परीषहोपसर्गकषायसेनाविजयात् वीथि:
श्री आचारांग सूत्रम्
(oco)