SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ गमनर्जुश्रेणिप्रतिपत्तेः सर्वसंवरसंयमात्, कारणे कार्योपचारं कृत्वा संयम एव, स च सप्तदशप्रकार ऋजुः तं करोतीति ऋजुकृत्, ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः, एवं विधश्चेदृग् भवतीति तद् दर्शयति-'नियागपडिवन्ने'त्ति यजनं याग: नियतो निश्चितो वा यागो नियागोमोक्षमार्गः, सङ्गतार्थत्वाद्धातो: सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं सङ्गतमिति, तं नियागं-सम्यग्दर्शनज्ञानचारित्रात्मकं मोक्षमार्ग प्रतिपन्नो नियाग प्रतिपन्नः, पाठान्तरं वा 'निकायप्रतिपन्नो' निर्गत: काय:-औदारिकादिर्यस्माद्यस्मिन्वा सति स निकायो-मोक्षस्तं प्रतिपन्नो निकायप्रतिपनन्नः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्याऽनुष्ठानात् स्वशक्त्याऽष्ठानं चामायाविनो भवतीति दर्शयति-‘अमायं कुव्वमाणे'त्ति माया-सर्वत्र स्ववीर्यनिगृहनं, न माया अमाया तां कुर्वाणः, अनिगृहितबलवीर्य: संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तज्जातीयोपादानादशेषकषायापगमोऽपि द्रष्टव्य इति, उक्तं च-'सोही य (शोधिश्चर्जुभूतस्य धर्म: शुद्धस्य तिष्ठति.) उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठइत्ति ।। तदेवमसावुद्धृतसकलमायावल्लीवितानः किं कुर्यादित्याहजाए सद्धाए निक्खंतो तमेव अणुपालिजा, वियहित्ता विसोत्तियं (विजहित्ता पुव्वसंजोयं) ।।सू० १९॥ यया श्रद्धया' प्रवर्द्धमानसंयमस्थान (मानुष्ठान) कण्डकरूपया 'निष्क्रान्तः' प्रवज्यां गृहीतवान् 'तामेव' श्रद्धामश्रान्तो यावज्जीवम् ‘अनुपालयेद्' रक्षेदित्यर्थः, प्रव्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तर्मोहूर्त्तिकः, नातः परं सङ्क्लेशविशुद्ध्यद्धे भवतः, उक्तं च-नान्तर्मुहूर्त्तकालमतिवृत्य शक्यं हि जगति सङ्लेष्टुम् । नापि विशोद्धं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥१॥ उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः ॥२॥' अवस्थितिकालश्च श्री आचारांग सूत्रम् (०७९)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy