________________
किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किश्चत्परकायशस्त्रं मृत्तिका-स्नेहक्षारादि, किञ्चिच्चोभयं उदकमिश्रमृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति ।। शेषद्वाराणि पृथिवीकायवनेतव्यानि इति दर्शयितुमाह
सेसाई दाराई ताई ताई हवंति पुढवीए । एवं आउद्देसे निजुत्ती कित्तिया. एसा (होइ) ॥११५॥
‘शेषाणी'त्युक्त शेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि, तान्येवात्रापि द्रष्टव्यानि यानि २ पृथिव्यां भवन्तीति, ‘एवम्' उक्तप्रकारेणाप्कायोद्देशके 'नियुक्तिः निश्चयेनार्थघटना कीर्तिता' प्रदर्शिता भवतीति ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से बेमि वि जहा से अणगारे उज्जुकडे नियागपडिवण्णे (निकाय-पडिवन्ने) अमायं कुव्वमाणे वियाहिए ॥ सू० १८॥
‘से बेमी'त्यादि अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परिसमाप्तिसूत्रे ‘पृथिवीकायसमारम्भव्यावृत्तो मुनि' रित्युक्तं, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति, तथाऽऽदिसूत्रेणायं सम्बन्ध:-सुधर्मस्वामी इदमाह-श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः । सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग भवति तदहं ब्रवीमि, अपि: समुच्चये, स यथा चाऽनगारो न भवति तथा च ब्रवीमि अणगारा मो त्ति एगे पवयमाणे'त्यादिनेति, न विद्यते अगारं-गृहमेषामित्यनगारा, इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टेगृहपरित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरिति दर्शयति-‘उज्जुकडे' त्ति ऋजु:-अकुटिल: संयमो दुष्प्रणिहितमनोवाक्कायनिरोधः सर्वसत्त्वसंरक्षणप्रवृत्तत्वाद्दयैकरूपः, सर्वत्राकुटिलगतिरितियावत्, यदि वा मोक्षस्थान
श्री आचारांग सूत्रम्
(०७८)