________________
स्नानपानधावनभक्तकरणसेकयानपात्रोडुपगमनागमनादिरुपभोगः ।। ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणन्युद्दिश्याप्कायवधे प्रवर्त्तन्त इति प्रदर्शयितुमाह
___एएहिं कारणेहिं हिंसंती आउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरेंति ॥११२ ।।
'एभिः' स्नानावगाहनादिकैः कारणैरुपस्थितैः विषयविषमोहितात्मानो निष्करुणा अप्कायिकान् जीवान् ‘हिंसन्ति' व्यापादयन्ति, किमर्थमित्याह-सातं सुखं तदात्मन: ‘अन्वेषयन्तः' प्रार्थयन्तः हिताहितविचारशून्यमनस: कतिपयदिवसस्थायिरम्ययौवनदर्पाध्मातचेतसः सन्त: सद्विवेकरहिता: तथा विवेकिजनसंसर्गविकला: ‘परस्य'अबादेर्जन्तुगणस्य 'दुःखम्' असातलक्षणं तद् ‘उदीरयन्ति' असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तं च-‘एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलन खलु कोऽपराधः ?॥१।।' इदानीं शस्त्रद्वार-मुच्यते
उस्सिंचणगालणधोवणे य उवगरणमत्तभंडे य । बायरआउक्काए एयं तु समासओ सत्थं ॥११३।।
शस्त्रं द्रव्यभावभेदात् द्विधा-द्रव्यशस्त्रमपि समासविभागभेदात्' द्विधैव, तत्र समासतो द्रव्यशस्त्रमिदम्-ऊर्ध्व सेचनमुत्सेचनं-कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालनं' घनमसृणवस्त्रार्द्धान्तेन 'धावनं' वस्त्राधुपकरणचर्मकोशकटाहा (घटा) दिभण्डकविषयम्, एवमादिकं बादराप्काये ‘एतत्' पूर्वोक्तं 'समासत:' सामान्येन शस्त्रं, तु शब्दो विभागापेक्षया विशेषणार्थः ।। विभागतस्त्विदम्किंची सकाय सत्थं किंची परकाय तदुभयं किंची । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥११४ ।।
आचारांग सूत्रम्
(०७७)