________________
हस्तिशरीरकललग्रहणं च महाकायत्वात्तद्बहुभवतीत्यत: सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थं, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि, अण्डकेऽप्यु (केषूदकग्रहणमेवमर्थमत्र, प्रयोगश्चायम्सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत्, विशेषणोपादानात्प्रश्रवणदिव्युदासः, तथा सात्मकं तोयम्, अनुपहतद्रवत्वाद्, अण्डकमध्यस्थितकललवदिति, तथा आपो जीवशरीराणि, छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वात् घेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद् द्रव्यत्वाद् एवं सर्वेऽपि शरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारवत्त्वादयः, सर्वत्र चायं दृष्टान्तः-सास्नाविषाणादिसङ्घातवदिति, ननु च रूपवत्त्वाकारवत्वादयो भूतधर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता, नैतदेवं, यदत्र छेद्यत्वादिहेतुत्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न च तथा परमाणवः, अत: प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः, उक्तं च 'तणवोऽणब्भातिविगार मुत्तजाइत्तओऽणिलंता उ । सत्थासत्थ-हयाओ निजीवसजीवरूवाओ ।।१।।' (तनवोऽण्वभ्रादिविकारा मूर्तजा-तित्वत: अनिलान्तास्तु । शस्त्राशस्त्राहता निर्जीवसजीवरूपाः ॥१॥) एवं शरीरत्वे सिद्धे सति प्रमाणं-सचेतना हिमादयः, क्वचित् अप्कायत्वाद्, इतरोदकवत् इति, तथा सचेतना आपः, क्वचित् खात-भूमिस्वाभाविक-सम्मभवत्वाद्, दर्दुरवत्, अथवा सचेतना अन्तरिक्षोद्भवा आपः, स्वाभावि-कव्योमसम्भूतसम्पातित्वात्, मत्स्यवत्, अत एते एवविधलक्षण-भाक्त्वाज्जीवा भवन्त्यप्कायाः ॥ साम्प्रतमुपभोगद्वारमाह___ण्हाणे पिअणे तह धोअणे य भत्तकरणे अ सेए अ । आउस्स उ परिभोगो गमणागमणे य जी(ना)वाणं ॥१११ ।।
श्री आचारांग सूत्रम्
(०७६)