________________
स्त्र्याद्यनुग्रहाय, निर्युक्तयस्तु सूत्रार्थं पिण्डाकुर्वन्त्यः प्रवर्तन्त इत्य- दोषः । त एते बादराप्कायाः समासतो द्वेधाः - पर्याप्तका अपर्याप्तकाश्च तत्रापर्याप्तका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तु वर्णगन्धरसस्पर्शादेशैः सहस्राग्रशो भिद्यन्ते, ततश्च सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यं, संवृतयोनयश्चैते, सा च योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनश्च शीतोष्णोभयभेदात्त्रिविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति ।। प्ररूपणानन्तरं परिमाणद्वारमाह
जे बायरपज्जत्ता पयरस्स असंखभागमित्ता । सेसा तिन्निवि रासी वीसुं लोगा असंखिज्जा ।। १०९ ।।
ये बादराप्कायपर्याप्तकास्ते संवर्त्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयो 'विष्वक् पृथगसंख्येयलोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम् - बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असंख्येयगुणाः बादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिका: सुक्ष्मपृथ्वीकायपर्याप्तकेभ्यः सुक्ष्माप्कायपर्याप्तका विशेषाधिकाः ।। साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाह
जह हत्थिस्स सरीरं कललावत्थस्स अहुणोववन्नस्स । होइ उदगंडगस्स य एसुवमा सव्वजीवाणं ।। ११० ।।
अथवा पर आक्षिपति - नाप्कायो जीवः, तल्लक्षणायोगात् प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थं दृष्टान्तद्वारेण लक्षणमाह - जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं सचेतनं च दृष्टम्, एवमप्कायोऽपीति, यथा वा उदकप्रधानमण्डकमुदकाण्डमधुनोत्पन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसञ्जातावयवमनभिव्यक्तचञ्च्वादिप्रविभागं चेतनावद् दृष्टम्, एषा एवोपमा अप्कायजीवानामपीति,
श्री आचारांग सूत्रम्
(०७५)