________________
ण्युक्तानि, अप्कायेऽपि तान्येव समानतयाऽतिदेष्टु-काम: कानिचिद्विशेषाभिधित्सयोद्धर्तु कामश्च नियुक्तिकारो गाथामाह____ आउस्सवि दाराई ताई जाई हवंति पुढवीए । । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥१०६ ।।
अप्कायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, 'नानात्वं' भेदरूपं विधानपरिमाणोपभोगशस्त्रविषयं द्रष्टव्यं, चशब्दा-लक्षणविषयं च, तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति ।। तत्र विधानप्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाह
दुविहा उ आउजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥१०७॥ स्पष्टा ।। तत्र पञ्च बादरविधानानि दर्शयितुमाहसुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव । बायर आउविहाणा पंचविहा वण्णिया एए ॥१०८॥ __ 'शुद्धोदकं' तडागसमुद्रनदीह्रदावटादिगतमवश्यादिरहितमिति, 'अवश्यायो' रजन्यां यस्त्रेहः पतति, हिमं तु शिशिरसमये शीतपुद्गलसम्पर्काज्जलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताङ्करमस्तकस्थितो जलबिन्दुभूमिस्नेहसम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराप्कायविधयो व्यावर्णिताः । ननु च प्रज्ञापनायां बादराप्कायभेदा बहवः परिपठिताः, तद्यथा-करकशीतोष्णक्षारक्षत्रकटुम्ललवणवरुणकालोदपुष्कर क्षीरघृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः ?, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्तपाती, शेषास्तु स्पर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमतिवर्त्तन्ते, यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः ?, उच्यते, स्त्रीबालमन्दबुद्ध्यादिप्रतिपत्त्यर्थमिति, इहापि कस्मान्न तदर्थं पाठः ?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादाएं, तत्र युक्तः सकल-भेदोपन्यासः
श्री आचारांग सूत्रम्
(०७४)