________________
परकायोभयरूपं, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाक्कायलक्षणः, एतद्विविधमपि शस्त्रं समारभमाणस्येति ‘एते' खननकृष्याद्यात्मका: समारम्भाः बन्धहेतुत्वेन ‘अपरिज्ञाता' अविदिता भवन्ति, एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह-‘एत्थे'त्यादि, ‘अत्र' पृथिवीकाये द्विविधमपि शस्त्रम् ‘असमारभमाणस्स' अव्यापारयत इति, ‘एते' प्रागुक्ताः कर्मसमारम्भाः ‘परिज्ञाता' विदिता भवन्ति, अनेन च विरत्यधिकार: प्रतिपादितो भवतीति, तामेव विरतिं स्वनामग्राहमाह-'त'मित्यादि, तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भे चाऽबन्धमिति मेधावी' कुशल: एतत् कुर्यादिति-दर्शयति नैव पृथिवीशस्त्रं द्रव्यभावभिन्नं समारभेत, नापि तद्विषयोऽन्यैः समारम्भ: कारयितव्यः, न चान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् इति, एवं च मनोवाक्कायकर्मभिरतीतानागतकालयोरप्यायोजनीयमिति, ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसञ्जिहीर्षुराह-'यस्य' विदितपृथिवीजीववेदनास्वरूपस्य, ‘एते' पृथिवीविषयाः कर्म समारम्भाः खननकृष्याद्यात्मका: कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरिज्ञया तथा प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, हुरवधारणे, स एव मुनिर्द्विविधयाऽपि परिज्ञया परिज्ञातं कर्म-सावद्यानुष्ठानमष्टप्रकारं वा कर्म येन स परिज्ञातकर्मा, नापरः शाक्यादिः, ब्रवीमि पूर्ववदिति शस्त्रपरिज्ञायां द्वितीय उद्देशकः समाप्त: ॥१-२॥
॥ अथ प्रथमाध्ययने तृतीयोऽप्कायोद्देशकः ॥ गतः पृथिव्युद्देशकः, साम्प्रतमप्कायोद्देशकः समारभ्यते. अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पृथिवीकायजीवा: प्रतिपादितास्तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपा-द्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, तत्र नामनिष्पन्ने निक्षेपे अप्कायोद्देशकः, तत्र पृथिवीकायजीवस्वरूपसमधिगतये यानि नव निक्षेपादीनि द्वारा
श्री आचारांग सूत्रम्
(०७3)