________________
बधिरो मूकः कुष्ठी पङ्गुः अनभिनिर्वृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मो-दयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशां प्राप्तः, तमेवंविधमन्धा-दिगुणोपेतं कश्चित्कुन्ताग्रेण ‘अब्भे' इति आभिन्द्यात् तथाऽपरः कश्चिद-न्धमाच्छिन्द्यात् स च भिद्यमानाद्यवस्थायां न पश्यति न श्रुणोति मूकत्वा-नोच्चै रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुम् ?, एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धबधिरमूकपङ्ग्वादिगुणोपेतपुरुषवदिति, यथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां अप्पेगे पायमब्भे' इति यथा नाम कश्चित्पादमाभिन्द्यादाच्छिन्द्याद्वेत्येवं गुल्फादिष्वप्यायोजनीयमिति दर्शयति, एवं जवाजानूरुकटीनाभ्युदरपार्श्वपृष्टउरोहृदयस्तनस्कन्ध-बाहुहस्ताङ्गुलिनखग्रीवा-हनुकौष्ठदन्तजिह्वातालुगलगण्डकर्ण-नासिका-क्षिभूललाटशिरःप्रभृतिष्ववयवेषु भिद्यमानेषु छिद्यमानेषु वा वेदनोत्पत्ति-र्लक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजां स्त्यानाद्युदयादव्यक्त-चेतना-नामव्यक्तैव वेदना भवतीति ग्राह्यम् । अत्रैव दृष्टान्तान्तरं दर्शयितुमाह-'अप्पेगे संपमारए अप्पेगे उद्दवए' यथा नाम कश्चित् ‘सम्' एकीभावेन प्रकर्षेण प्राणानां मारणम्-अव्यक्तत्वापादनं कस्यचित् कुर्यात्, मूर्छामा-पादयेदित्यर्थः, तथाऽवस्थं च यथा नाम कश्चिदपद्रापयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ तां वेदनां स्फुटामनुभवति, अस्ति चाव्यक्ता तस्यासौ वेद(चेत) नेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति । पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह- .
एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति. तं परिण्णाय मेहावी नेव सयं पुढविसत्थं समारंभेजा, णेवऽण्णेहि पुढविसत्थं समारंभावेज्जा, णेवऽण्णे पुढविसत्थं समारंभंते समणुजाणेजा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हु मुर्ण परिण्णातकम्मेत्ति बेमि ॥ सू० १७॥ इति प्रथमाध्ययने द्वितीय उद्देशकः ।
'अत्र' पृथिवीकाये शस्त्रं द्रव्यभावभिन्नं, तत्र द्रव्यशस्त्रं स्वकाय
श्री आचारांग सूत्रम्
(०७२)