Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 92
________________ र्भावितेति । यथा वा-ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, जीवाधिष्ठितशरीरकानुपात्येव भवति, एषैवोपमाऽऽग्नेयजन्तूनां, न च मृता ज्वरिण: क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्ने: सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता, सम्प्रति प्रयोगमारोप्यते अयमेवार्थ:-जीवशरीराण्यङ्गारादयः, छेद्यत्वादिहेतुगणान्वितत्वात्, सास्नाविषाणादिसङ्घातवत्, तथा आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतकदेहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोङ्गारादीनामूष्मा, शरीरस्थत्वात्, ज्वरोष्मवत्, न चादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वं तस्मानानेकान्तः, तथा सचेतनं तेजो, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात्, पुरुषवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेया इति ।। उक्तं लक्षणद्वारं, तदनन्तरं परिणामद्वारमाह जे बायरपज्जत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिण्णिवि रासी वीसुं लोगा असंखिजा ॥१२० ॥ ये बादरपर्याप्तानलजीवा: क्षेत्रपल्योपमासङ्ख्येयभागमात्रवर्त्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसङ्ग्रेयगुणहीना:, शेषास्त्रयोऽपि राशय: पृथ्वीकायवद्भावनीयाः, किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असंख्येयगुणहीना: सूक्ष्मपृथिवीकायापर्याप्तकेभ्य: सूक्ष्माग्नेयापर्याप्तका विशेषहीना सूक्ष्मपृथिवीकायपर्याप्तकेभ्य: सूक्ष्माग्नेयपर्याप्तका विशेषहीना: इति ॥साम्प्रतमुपभोगद्वारमाह दहने पयावण पगासणे य भत्तकरणे य सेए य । बायरतेउक्काए उवभोगगुणा मणुस्साणं ॥१२१ ।। दहनं-शरीराद्यवयवस्य वाताद्यपनयनार्थं प्रकृष्टं तापनं प्रतापनंशीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिना भक्तकरणम्-ओदनादिरन्धनं स्वेदोज्वरविसूचिकादीनाम्, इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां बादरतेजस्वकायविषया उपभोगरूपा गुणा उपभोगगुणा भव श्री आचारांग सूत्रम् (०६१)

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146