________________
र्भावितेति । यथा वा-ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, जीवाधिष्ठितशरीरकानुपात्येव भवति, एषैवोपमाऽऽग्नेयजन्तूनां, न च मृता ज्वरिण: क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्ने: सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता, सम्प्रति प्रयोगमारोप्यते अयमेवार्थ:-जीवशरीराण्यङ्गारादयः, छेद्यत्वादिहेतुगणान्वितत्वात्, सास्नाविषाणादिसङ्घातवत्, तथा आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतकदेहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोङ्गारादीनामूष्मा, शरीरस्थत्वात्, ज्वरोष्मवत्, न चादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वं तस्मानानेकान्तः, तथा सचेतनं तेजो, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात्, पुरुषवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेया इति ।। उक्तं लक्षणद्वारं, तदनन्तरं परिणामद्वारमाह
जे बायरपज्जत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिण्णिवि रासी वीसुं लोगा असंखिजा ॥१२० ॥
ये बादरपर्याप्तानलजीवा: क्षेत्रपल्योपमासङ्ख्येयभागमात्रवर्त्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसङ्ग्रेयगुणहीना:, शेषास्त्रयोऽपि राशय: पृथ्वीकायवद्भावनीयाः, किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असंख्येयगुणहीना: सूक्ष्मपृथिवीकायापर्याप्तकेभ्य: सूक्ष्माग्नेयापर्याप्तका विशेषहीना सूक्ष्मपृथिवीकायपर्याप्तकेभ्य: सूक्ष्माग्नेयपर्याप्तका विशेषहीना: इति ॥साम्प्रतमुपभोगद्वारमाह
दहने पयावण पगासणे य भत्तकरणे य सेए य । बायरतेउक्काए उवभोगगुणा मणुस्साणं ॥१२१ ।।
दहनं-शरीराद्यवयवस्य वाताद्यपनयनार्थं प्रकृष्टं तापनं प्रतापनंशीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिना भक्तकरणम्-ओदनादिरन्धनं स्वेदोज्वरविसूचिकादीनाम्, इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां बादरतेजस्वकायविषया उपभोगरूपा गुणा उपभोगगुणा भव
श्री आचारांग सूत्रम्
(०६१)