SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ न्तीति ।। तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कायजन्तून् हिंसन्तीति दर्शयितुमाह एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥१२२ ।। ‘एतैः'दहनादिभि: कारणैस्तेजस्कायिकाम् जीवान् ‘हिंसन्ती'ति सट्टनपरितापनापद्रावणानि कुर्वन्ति ‘सातं' सुखं तदात्मनोऽन्वेष्यन्तः 'परस्य' बादराग्निकायस्य दुःखम् उदीरयन्ति' उत्पादयन्तीति ।। साम्प्रतं शस्त्रद्वारं, तच्च द्रव्यभावशस्त्रभेदात् द्विधा, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाह पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा । बायरतेउक्काए एयं तु समासओ सत्थं ॥१२३ ।। 'पृथिवी' धूलि: अप्कायश्च आर्द्रश्च वनस्पति: त्रसाश्च प्राणिनः, एतद्-बादरतेजस्कायजन्तूनां समासत: सामान्येन शस्त्रमिति ।। विभागतो द्रव्यशस्त्रस्वरूपमाह किंचि सकायसत्थं किंची परकाय तदुभयं किंची । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥१२४ ।। किञ्चिच्छस्त्रं स्वकाय एव अग्निकाय एव अग्निकायस्य, तद्यथातार्णोऽग्निः पर्णाग्ने: शस्त्रमिति, किञ्चिच्च परकायशस्त्रम्-उदकादि, उभयशस्त्रं पुन:-तुषकरीषादिव्यतिमिश्रोऽग्निरपराग्नेः, तुशब्दो भावशस्त्रापेक्षया विशेषणार्थः, ‘एतत्तु' पूर्वोक्तं समासविभागरूपं पृथिवीस्वकायादि द्रव्यशस्त्रमिति । भावशस्त्रं दर्शयतिभावे शस्त्रम् असंयमोदुष्प्रणिहितमनोवाकायलक्षण इति । उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीर्षुनियुक्तिकृदाह सेसाई दाराई ताई जाइं हवंति पुढवीए । एवं तेउद्देसे निज्जुत्ती कित्तिया एसा ॥१२५ ।। उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि ‘एवम्' श्री आचारांग सूत्रम् (०६२)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy