Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 101
________________ वाक्यभेदश्चेति, इह च द्वितीयाविभक्तेः सप्तमीपरिणाम: कृत इति । ये च तत्र'अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रमरनकुलादयस्तत्राग्नावपद्रावन्ति-प्राणान् मुञ्चन्तीत्यर्थः, तदेवमग्निसमारम्भे सति न केवलमग्निजन्तूनां विनाश: किं त्वन्येषामपि पृथिवीतृणपत्रकाष्ठगोमयकचवराश्रितानां सम्पातिमानां च व्यापत्तिरवश्यम्भाविनीति, अत एव च भगवत्यां भगवतोक्तम्-'दो पुरिसा सरिसवया अन्नमन्नेहिं सद्धिं अगणिकायं समारं-भंति, तत्थ णं एगे पुरिसे अगणिकायं समुज्जालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए ? के पुरिसे अप्पकम्मयराए ?, गोयमा ! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए' ।। (द्वौ पुरुषौ सदृशवयसौ अन्योऽन्यं समकमग्निकार्य समारम्भयतः, तत्रैक: पुरुषोऽग्निकायं समुज्वलयति, एको विध्यापयंति, तत्र कः पुरुषो महाकर्मा क: पुरुषोऽल्पकर्मा ?, गौतम ! य उज्ज्वलयति स महाका यो विध्याप-यति सोऽल्पकर्मा ।) तदेवं प्रभूतसत्त्वोपमईनकरमग्न्यारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमातभिश्च तत्परिहार: कार्य इति दर्शयितुमाह- .. एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थं सत्थं असामरंभमाणस्स इच्चेते आरंभा परिणाया भवंति, तं परिण्णाय मेहावी णेव सयं अगणिसत्थं समारंभे नेवऽण्णेहिं अगणिसत्थं समारंभावेजा अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेज्जा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मेत्तिबेमि ॥ सूत्रं ३८ ॥ ॥ इति चतुर्थ उद्देशकः ॥१-४॥ 'अत्र' अग्निकाये शस्त्रं' स्वकायपरकायभेदभिन्नं 'समारभमाणस्य' व्यापारयत इत्येते आरम्भाः पचनपाचनादयो बन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथा अत्रैवाग्निकाये शस्त्रमसमारंभमाणस्यैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्निकायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति प्रत्याख्यान श्री आचारांग सूत्रम् (१००)

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146