________________
वाक्यभेदश्चेति, इह च द्वितीयाविभक्तेः सप्तमीपरिणाम: कृत इति । ये च तत्र'अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रमरनकुलादयस्तत्राग्नावपद्रावन्ति-प्राणान् मुञ्चन्तीत्यर्थः, तदेवमग्निसमारम्भे सति न केवलमग्निजन्तूनां विनाश: किं त्वन्येषामपि पृथिवीतृणपत्रकाष्ठगोमयकचवराश्रितानां सम्पातिमानां च व्यापत्तिरवश्यम्भाविनीति, अत एव च भगवत्यां भगवतोक्तम्-'दो पुरिसा सरिसवया अन्नमन्नेहिं सद्धिं अगणिकायं समारं-भंति, तत्थ णं एगे पुरिसे अगणिकायं समुज्जालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए ? के पुरिसे अप्पकम्मयराए ?, गोयमा ! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए' ।। (द्वौ पुरुषौ सदृशवयसौ अन्योऽन्यं समकमग्निकार्य समारम्भयतः, तत्रैक: पुरुषोऽग्निकायं समुज्वलयति, एको विध्यापयंति, तत्र कः पुरुषो महाकर्मा क: पुरुषोऽल्पकर्मा ?, गौतम ! य उज्ज्वलयति स महाका यो विध्याप-यति सोऽल्पकर्मा ।) तदेवं प्रभूतसत्त्वोपमईनकरमग्न्यारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमातभिश्च तत्परिहार: कार्य इति दर्शयितुमाह- ..
एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थं सत्थं असामरंभमाणस्स इच्चेते आरंभा परिणाया भवंति, तं परिण्णाय मेहावी णेव सयं अगणिसत्थं समारंभे नेवऽण्णेहिं अगणिसत्थं समारंभावेजा अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेज्जा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मेत्तिबेमि ॥ सूत्रं ३८ ॥
॥ इति चतुर्थ उद्देशकः ॥१-४॥ 'अत्र' अग्निकाये शस्त्रं' स्वकायपरकायभेदभिन्नं 'समारभमाणस्य' व्यापारयत इत्येते आरम्भाः पचनपाचनादयो बन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथा अत्रैवाग्निकाये शस्त्रमसमारंभमाणस्यैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्निकायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति प्रत्याख्यान
श्री आचारांग सूत्रम्
(१००)