Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्व्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ? ।। १ ।। स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः । नाहं कर्तेति भूतानां यः पश्यति स पश्यति ॥ २ ॥ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान्मयूरान् । कश्चोत्पलेषु दलसन्निचयं करोति, को वा करोति (दधाति) विनयं कुलजेषु पुंस्सु ? ।। ३ ।।' तथाऽन्ये ऽभिदधते - समस्तमेतज्जीवादीश्वरात्प्रसूतं, तस्मादेव स्वरूपेऽवतिष्ठते, कः पुनरयमीश्वरः ?, अणिमाद्यैश्वर्ययोगादीश्वरः, उक्तं च- 'अज्ञो (न्यो) जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छे-च्छ्वभ्रं वा स्वर्गमेव वा ॥ १ ॥ ' तथा अन्ये ब्रुवते न जीवादयः पदार्था: कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ?, आत्मनः, कः पुनरयमात्मा १, आत्माद्वैतवादिनां विश्वपरिणतिरूपः आत्मायत उक्तञ्च - 'एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १ ॥ ' तथा 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य' मित्यादि । एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ॥
तथा अक्रियावादिनो - नास्तित्वववादिन:, तेषामपि जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः स्वपरभेदद्वयेन तथा कालयदृच्छानियतिस्वभावेश्वरात्मभिः षड्भिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति, तद्यथा - नास्ति जीवाः स्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धौ एवं यदृच्छानियत्यादिष्वपि प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येकं द्वादशैते, सप्त द्वादशका-श्चतुरशीतिरिति ८४ । अयमत्रार्थ :- नास्ति जीवः स्वतः कालत इति इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा ?, न चात्मनस्तादृगस्ति किञ्चिल्लक्षणं येन सत्तां प्रतिपद्येमहि, नापि कार्य्यमणूनामिव महीध्रादि सम्भवति, यच्च लक्षणकार्याभ्यां नाभि-गम्यते वस्तु तन्नास्त्येव, वियदिन्दीवरवत्,
श्री आचारांग सूत्रम्
(०३७)
-

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146