Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 76
________________ स्त्र्याद्यनुग्रहाय, निर्युक्तयस्तु सूत्रार्थं पिण्डाकुर्वन्त्यः प्रवर्तन्त इत्य- दोषः । त एते बादराप्कायाः समासतो द्वेधाः - पर्याप्तका अपर्याप्तकाश्च तत्रापर्याप्तका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तु वर्णगन्धरसस्पर्शादेशैः सहस्राग्रशो भिद्यन्ते, ततश्च सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यं, संवृतयोनयश्चैते, सा च योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनश्च शीतोष्णोभयभेदात्त्रिविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति ।। प्ररूपणानन्तरं परिमाणद्वारमाह जे बायरपज्जत्ता पयरस्स असंखभागमित्ता । सेसा तिन्निवि रासी वीसुं लोगा असंखिज्जा ।। १०९ ।। ये बादराप्कायपर्याप्तकास्ते संवर्त्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयो 'विष्वक् पृथगसंख्येयलोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम् - बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असंख्येयगुणाः बादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिका: सुक्ष्मपृथ्वीकायपर्याप्तकेभ्यः सुक्ष्माप्कायपर्याप्तका विशेषाधिकाः ।। साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाह जह हत्थिस्स सरीरं कललावत्थस्स अहुणोववन्नस्स । होइ उदगंडगस्स य एसुवमा सव्वजीवाणं ।। ११० ।। अथवा पर आक्षिपति - नाप्कायो जीवः, तल्लक्षणायोगात् प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थं दृष्टान्तद्वारेण लक्षणमाह - जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं सचेतनं च दृष्टम्, एवमप्कायोऽपीति, यथा वा उदकप्रधानमण्डकमुदकाण्डमधुनोत्पन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसञ्जातावयवमनभिव्यक्तचञ्च्वादिप्रविभागं चेतनावद् दृष्टम्, एषा एवोपमा अप्कायजीवानामपीति, श्री आचारांग सूत्रम् (०७५)

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146