Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 79
________________ किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किश्चत्परकायशस्त्रं मृत्तिका-स्नेहक्षारादि, किञ्चिच्चोभयं उदकमिश्रमृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति ।। शेषद्वाराणि पृथिवीकायवनेतव्यानि इति दर्शयितुमाह सेसाई दाराई ताई ताई हवंति पुढवीए । एवं आउद्देसे निजुत्ती कित्तिया. एसा (होइ) ॥११५॥ ‘शेषाणी'त्युक्त शेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि, तान्येवात्रापि द्रष्टव्यानि यानि २ पृथिव्यां भवन्तीति, ‘एवम्' उक्तप्रकारेणाप्कायोद्देशके 'नियुक्तिः निश्चयेनार्थघटना कीर्तिता' प्रदर्शिता भवतीति ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से बेमि वि जहा से अणगारे उज्जुकडे नियागपडिवण्णे (निकाय-पडिवन्ने) अमायं कुव्वमाणे वियाहिए ॥ सू० १८॥ ‘से बेमी'त्यादि अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परिसमाप्तिसूत्रे ‘पृथिवीकायसमारम्भव्यावृत्तो मुनि' रित्युक्तं, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति, तथाऽऽदिसूत्रेणायं सम्बन्ध:-सुधर्मस्वामी इदमाह-श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः । सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग भवति तदहं ब्रवीमि, अपि: समुच्चये, स यथा चाऽनगारो न भवति तथा च ब्रवीमि अणगारा मो त्ति एगे पवयमाणे'त्यादिनेति, न विद्यते अगारं-गृहमेषामित्यनगारा, इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टेगृहपरित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरिति दर्शयति-‘उज्जुकडे' त्ति ऋजु:-अकुटिल: संयमो दुष्प्रणिहितमनोवाक्कायनिरोधः सर्वसत्त्वसंरक्षणप्रवृत्तत्वाद्दयैकरूपः, सर्वत्राकुटिलगतिरितियावत्, यदि वा मोक्षस्थान श्री आचारांग सूत्रम् (०७८)

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146