Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 77
________________ हस्तिशरीरकललग्रहणं च महाकायत्वात्तद्बहुभवतीत्यत: सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थं, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि, अण्डकेऽप्यु (केषूदकग्रहणमेवमर्थमत्र, प्रयोगश्चायम्सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत्, विशेषणोपादानात्प्रश्रवणदिव्युदासः, तथा सात्मकं तोयम्, अनुपहतद्रवत्वाद्, अण्डकमध्यस्थितकललवदिति, तथा आपो जीवशरीराणि, छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वात् घेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद् द्रव्यत्वाद् एवं सर्वेऽपि शरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारवत्त्वादयः, सर्वत्र चायं दृष्टान्तः-सास्नाविषाणादिसङ्घातवदिति, ननु च रूपवत्त्वाकारवत्वादयो भूतधर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता, नैतदेवं, यदत्र छेद्यत्वादिहेतुत्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न च तथा परमाणवः, अत: प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः, उक्तं च 'तणवोऽणब्भातिविगार मुत्तजाइत्तओऽणिलंता उ । सत्थासत्थ-हयाओ निजीवसजीवरूवाओ ।।१।।' (तनवोऽण्वभ्रादिविकारा मूर्तजा-तित्वत: अनिलान्तास्तु । शस्त्राशस्त्राहता निर्जीवसजीवरूपाः ॥१॥) एवं शरीरत्वे सिद्धे सति प्रमाणं-सचेतना हिमादयः, क्वचित् अप्कायत्वाद्, इतरोदकवत् इति, तथा सचेतना आपः, क्वचित् खात-भूमिस्वाभाविक-सम्मभवत्वाद्, दर्दुरवत्, अथवा सचेतना अन्तरिक्षोद्भवा आपः, स्वाभावि-कव्योमसम्भूतसम्पातित्वात्, मत्स्यवत्, अत एते एवविधलक्षण-भाक्त्वाज्जीवा भवन्त्यप्कायाः ॥ साम्प्रतमुपभोगद्वारमाह___ण्हाणे पिअणे तह धोअणे य भत्तकरणे अ सेए अ । आउस्स उ परिभोगो गमणागमणे य जी(ना)वाणं ॥१११ ।। श्री आचारांग सूत्रम् (०७६)

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146