Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
शतसहस्राणि, प्रर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति, तद् यत्रैकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः) इह च संवृतयोनयः पृथिविकायिका उक्ताः, सा पुनः सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ।। एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाह
वण्णमि य इक्किक्के गंधमि रसंमि तह य फासंमि । नाणत्ती कायव्वा विहाणए होइ इक्किक्कं ॥७८ ॥
वर्णादिके एकैकस्मिन ‘विधाने' भेदे सहस्राग्रशो नानात्वं विधेयं. तथाहि-कृष्णो वर्ण इति सामान्यं, तस्य च भ्रमराङ्गारकोकिलगवलकजलादिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः कृष्णतर: कृष्णतम इत्यादि, एवं नीलादिष्व-प्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्धसरकेसरकर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्या: ।। पुनरपि पर्याप्तकादि-भेदानेदमाह
- जे बायरे विहाणा पजत्ता तत्तिआ अपज्जत्ता । सुहुमावि हुंति दुविहा पजत्ता चेव अपज्जत्ता ॥७९॥
यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानां, यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तका: स्युः । पर्याप्तिस्तु आहारसरीरिन्दियऊसासवओमणीऽहिनिव्वत्ती । होति जतो दलियाओ करणं पइ सा उ पज्जत्ती ॥१॥' (आहार: शरीरमिन्द्रियाणि उच्छवासो वच: मन; अभिनिर्वृत्तिः भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः॥१॥) जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निवर्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग् खलरसादिभावेन
श्री आचारांग सूत्रम्
(०५७)

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146