SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ शतसहस्राणि, प्रर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति, तद् यत्रैकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः) इह च संवृतयोनयः पृथिविकायिका उक्ताः, सा पुनः सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ।। एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाह वण्णमि य इक्किक्के गंधमि रसंमि तह य फासंमि । नाणत्ती कायव्वा विहाणए होइ इक्किक्कं ॥७८ ॥ वर्णादिके एकैकस्मिन ‘विधाने' भेदे सहस्राग्रशो नानात्वं विधेयं. तथाहि-कृष्णो वर्ण इति सामान्यं, तस्य च भ्रमराङ्गारकोकिलगवलकजलादिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः कृष्णतर: कृष्णतम इत्यादि, एवं नीलादिष्व-प्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्धसरकेसरकर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्या: ।। पुनरपि पर्याप्तकादि-भेदानेदमाह - जे बायरे विहाणा पजत्ता तत्तिआ अपज्जत्ता । सुहुमावि हुंति दुविहा पजत्ता चेव अपज्जत्ता ॥७९॥ यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानां, यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तका: स्युः । पर्याप्तिस्तु आहारसरीरिन्दियऊसासवओमणीऽहिनिव्वत्ती । होति जतो दलियाओ करणं पइ सा उ पज्जत्ती ॥१॥' (आहार: शरीरमिन्द्रियाणि उच्छवासो वच: मन; अभिनिर्वृत्तिः भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः॥१॥) जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निवर्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग् खलरसादिभावेन श्री आचारांग सूत्रम् (०५७)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy