________________
हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अब्भपडलब्भवालुअ बायरकाए मणिविहाणा ।।७४ ।। गोमेज्जए य रुयगे अंको फलिहे य लोहियक्खे य । मरगय मसारगल्ले भुयमोयग इंदनीले य ॥७५ ।। (चंदण गेरुय हंसग भुयमोय मसारगल्ले य प्र.) चंदप्पह वेरुलिए जलकंते चेव सूरकन्ते य । एए खरपुढवीए नामं छत्तीसयं होइ ॥७६ ॥
अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिविभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एता: स्पष्टा इति कृत्वा न विवृताः ।। एवं सूक्ष्मबादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाह
वण्णरसगंधफासे जोणिप्पमुहा भवंति संखेज्जा । णेगाइ सहस्साई हुंति विहाणंमि इक्किक्के ॥७७॥
तत्र वर्णाः शुक्लादयः पञ्च रसास्तिक्तादयः पञ्च गन्धौ सुरभिदुरभी स्पर्शा: मूदुकळशादय: अष्टौ, तत्र वर्णादिके एकैकस्मिन् ‘योनिप्रमुखा' योनिप्रभृतय: संख्येया भेदा भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सहस्राणि एकैकस्मिन् वर्णादिके 'विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात् पृथिव्यां एवं (सं)भाव-नीयमिति । उक्तं च प्रज्ञापनायाम्- 'तत्थ णं जे ते पज्जतगा एएसि णं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाइं संखेज्जाइं जोणिपमुहसयसहस्साइं पज्जत्तयणिस्साए अपज्जत्तया वक्कमंति, तं जत्थेगो तत्थ नियमा असंखेज्जा, सेत्तं खरबायरपुढविकाइया' (तत्र ये ते पर्याप्तका: एतेषां वर्णादेशेन गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्राग्रशो विधानानि संख्येयानि योनिप्रमुखानि
श्री आचारांग सूत्रम्
(०५६)