________________
भिरुपमर्दनादिकः, निवृत्तिः-अप्रमत्तस्य मनोवाक्कायगुप्त्याऽनुपमहादिकेति समासार्थः । व्यासार्थं तु नियुक्तिकृद्यथाक्रममाह
नाम ठवणापुढवी दव्वपुढवी य भावपुढवी य । एसो खलु पुढवीए निक्खेवो चउविहो होइ ॥६९ ।।
स्पष्टा, नामस्थापने क्षुण्णत्वादनादृत्याहदव्वं सरीरभविओ भावेण य होइ पुढविजीवो उ । जो पुढविनामगोयं कम्मं वेएइ सो जीवो ७० ।।
द्रव्यपृथिवी आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवापेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो-बालादिस्ताभ्यां विनिर्मुक्तो द्रव्यपृथिवीजीव:एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीर्णं वेदयति । गतं निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम्
दुविहा य पुढविजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए दो चेव य बायरविहाणा ॥७१।।
पृथिवीजीवा द्विविधा:-सूक्ष्मा बादराश्च, सूक्ष्मनामकर्मोदयात् सूक्ष्माः , बादरनामकर्मोदयात्तु बादरा:, कर्मोदयजनिते एवेषां सूक्ष्मबादरत्वे न त्वापेक्षिके बदरामलकयोरिव ।। तत्र सूक्ष्मा: समुद्कपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिन:, बादरास्तु मूलभेदाद्विविधा इत्याह
दुविहा बायरपुढवी समासओ सण्हपुढवि खरपुढवी । सण्हा य पंचवण्णा अवरा छत्तसइविहाणा ॥७२॥
‘समासत:' संक्षेपाद्विविधा बादरपृथिवि-श्लक्ष्णबादरपृथिवी खरबादस्पृथिवी च, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीतशुक्लभेदात्पञ्चधा, इह च गुणभेदाद्गुणिभेदोऽभ्युपगन्तव्यः, खरबादरपृथिव्यास्त्वन्येऽपि षट्त्रिंश-द्विशेषभेदाः सम्भवन्तीति ।। तानाहपुढवी य सक्करा वालुगा य उवले सिला य लोणूसे । अय तंब तउअ सोसग रुप्प सुवण्णे य वइरे य ॥७३॥
श्री आचारांग सूत्रम्
(०५५)