________________
धवतो, न ह्याभ्यां विना मोक्षो भवति, यत् उक्तम्-'ज्ञानक्रियाभ्यां मोक्ष' इति । इतिशब्द एतावानयमात्मपदार्थविचार: कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शन:, यदिवा 'इति' एतदहं ब्रवीमि यत्प्रागुक्तं यच्च वक्ष्ये तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वेति शस्त्रपरिज्ञायां प्रथमोद्देशक: समाप्तः ॥ .
॥ अथ प्रथमाध्ययने द्वितीयोद्देशकः ॥ __ उक्तः प्रथमोद्देशक: साम्प्रतं द्वितीयः प्रस्तूयते-अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, इदानीं तस्यैवेकेन्द्रियादिपृथि-व्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनित्वकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनिर्न भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, यावनामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति । तत्रोद्देशकस्य निक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यनिक्षेपादि सम्भवति तन्नियुक्तिकृद्दर्शयितुमाह
पुढवीए निक्खेवो परूवणालक्खणं परीमाणं ।। उवभोगो सत्थं वेयणा य वहणा निवित्ती य ॥६८॥
प्राग्जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच्च नाशङ्कनीयं, यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य चौपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति । तत्र पृथिव्या नामादिनिक्षेपो वक्तव्यः, प्ररूपणासूक्ष्मबादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिकं, परिमाणंसंवर्तितलोकप्रतरासंख्येयभागमात्रादिकम्, उपभोगः- शयनासनचक्र मणादिकः, शस्त्रं-स्नेहाम्लक्षारादि, वेदना-स्वशरीराव्यक्तचेतनानुरूपा सुखदु:खानुभवस्वभावा, वध:-कृतकारितानुमति
श्री आचारांग सूत्रम्
(०५४)