________________
कर्तुं पुनस्तेषु गुणप्रकर्ष, चेष्टा तदुच्चैःपदलङ्घनाय ।।१।' तदेवंभूतैः क्रियाविशेषैः कर्मोपादाय नानादिक्ष्वनुसञ्चरन्ति अनेकरूपासु च योनिषु सन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, इत्येतज्ज्ञात्वा क्रियाविशेषनिवृत्तिर्विधेयेति ॥११ ।। एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह
एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति ।।सू०१२॥
'एआवन्ती सव्वावन्तीति एतौ द्वौ शब्दौ मागधदेशीभाषाप्रसिद्धया एतावन्तः सर्वेऽपीत्येतत्पर्यायौ, एतावन्त एव सर्वस्मिन् ‘लोके' धर्माधििस्तकायावच्छिन्ने नभ:खण्डे ये पूर्वं प्रतिपादिताः कर्मसमारम्भाः' क्रियाविशेषाः, नैतेभ्योऽधिका: केचन सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादाना-दिति भावः तथाहि-आत्मपरोभयैहिकामुष्मिकातीतानागतवर्तमानकाल-कृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमा-योज्या इति ।।१२।। एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदोपसंहारद्वारेण विरतिं प्रतिपादयन्नाह
जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे तिबेमि ।।सू०१३ ।।
इति प्रथमाध्ययने प्रथमो उद्देशकः ॥१-१॥
भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह-'यस्य' मुमुक्षोः ‘एते' पूर्वोक्ताः ‘कर्मसमारम्भाः' क्रियाविशेषाः कर्मणो वाज्ञानावरणीयाधष्टप्रकारस्य समारम्भा उपादानहेतवस्ते च क्रियाविशेषा एव, परि-समन्तात् ज्ञाता:-परिच्छिन्ना: कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः स एव मुनिर्जपरिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते
श्री आचारांग सूत्रम्
(०५३)