________________
परिणति नयति स तादृक्करणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्या: तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छ्रासाभिधानाश्चतस्रो भवन्ति, एताश्चान्तर्मुहर्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्येव कायो येषामिति विग्रहः ।। यथा सूक्ष्मबादरादयो भेदाः सिद्ध्यन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाह
रुक्खाणं गुच्छाणं गुम्माणं लयाणं वल्लिवलयाणं । जह दीसइ नाणत्तं पुढवीकाए तहा जाण ।।८।।
यथा वनस्पतेर्वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः-चूतादयो गुच्छावृन्ताकीसल्लकीकर्पास्यादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लता:-पुन्नागाशोकलताद्याः, वल्लयः-त्रपुषी-वालुङ्कीकोशातक्याद्या: वलयानि-केत . कीकदल्यादीनि ।। पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाह
ओसहि तण सेवाले पणगविहाणे य कंद मूले य । जह दीसइ नाणत्तं पुढवीकाए तहा जाण ॥८१॥
यथा हि वनस्पतिकायस्य औषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्य:-शाल्याद्याः, तृणानि-दर्भादीनि, सेवालं-जलोपरि मलरूपं, पनक:-काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्द-सूरणकन्दादिः, मूलम्-उशीरादीति ।। एते च सूक्ष्मत्वान्नैकव्यादिका: समुपलभ्यन्ते, यत्संख्यास्तूपलम्भ्यन्ते तदर्शयितुमाहइक्कस्स दुण्ह तिण्ह व संखिज्जाण व न पासिउं सक्का ।
दीसंति सरीराइं पुढविजियाणं असंखाणं ॥८२।।
स्पष्टा ।। कथं पुनरिदमवगन्तव्यम् ? सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धेः अधिष्ठातरि प्रतीतिर्गवाश्वादाविव इति, एतदर्शयितुमाह. एएहिं सरीरेहिं पच्चक्खं ते परूविया हंति ।
सेसा आणागिज्झा चक्खुफासं न जं इंति ॥८३ ।।
श्री आचारांग सूत्रम्
(०५८)