________________
‘एभि:' असंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभेदभिन्नैः शरीरैस्ते शरीरिण: शरीरद्वारेण 'प्रत्यक्षं' साक्षात् 'प्ररूपिता: ' ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एव द्रष्टव्याः, यतस्ते चक्षुः स्पर्शं नागच्छन्ति, स्पर्शशब्दो विषयार्थः । प्ररूपणाद्वारानन्तरं लक्षणद्वारमाहउवओगजोग अज्झवसाणे मइसुय अचक्खुदंसे य । अट्ठविहोदयलेसा सन्नुस्सासे कसाया य ॥ ८४ ॥ तत्र पृथिवीकायादीनां स्त्यानर्ध्याद्युदयाद्या च यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षणं, तथा योगः-कायाख्य एक एव, औदारिकतन्मिश्रकार्म्मणात्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय व्याप्रियते, तथा अध्यवसाया:- सूक्ष्मा आत्मनः परिणामविशेषाः, ते च लक्षणम्, अव्यक्तचैतन्यपुरुषमनः समुद्भूतचिन्ताविशेषा इवानभिलक्ष्यास्तेऽभिगन्तव्या:, तथा साकारोपयोगान्तःपातिमतिश्रुताज्ञानसमन्विताः पृथिवीकायिका बोद्धव्या:, तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगता बोद्धव्या:, तथा ज्ञानावरणीयाद्यष्टविधकर्मोदयभाजस्तावद्बन्धभाजश्च तथा लेश्या - अध्यवसायविशेषरूपाः
कृष्णनीलकापोततैजस्यश्चतस्रः ताभिरनुगता:, तथा दशविधसंज्ञानुगताः, ताश्च आहारादिकाः प्रागुक्ता एव, तथा सूक्ष्मोच्छवासनिःश्वासानुगताः, उक्तं च-‘पुढविकाइया णं भंते ! जीवा आणवन्ति वा पाणवन्ति वा ऊससन्ति वा नीससंति वा ? गोयमा ! अविरहियं सतयं चेव आणवन्ति वा पाणवन्ति वा ऊससन्ति वा नीससन्ति वा' (पृथ्वीकायिका भदन्त ! जीवा आनन्ति वा प्राणन्ति वा उच्छ्वसन्ति वा श्रिश्वसन्ति वा ?, गौतम ! अविरहितं सततमेव चानन्ति वा प्राणन्ति वा उच्छ्वसन्ति वा निःश्वसन्ति वा ।) कषाया अपि सूक्ष्माः क्रोधादयः । एवमेतानि जीलक्षणान्युपयोगादीनि कषायपर्यवसानानि पृथिवीकायिकेषु सम्भवन्तीति, ततश्चैवंविधजीवलक्षणकलापसमनुगत्वात् मनुष्यवत्सचित्ता पृथिवीति । ननु च तदिदमसिद्धमसिद्धेन साध्यते, तथाहि - न ह्युपयोगादीनि लक्षणानि
-
श्री आचारांग सूत्रम्
(०५९)