SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पृथिवीकायेषु व्यक्तानि समुपलक्ष्यन्ते, सत्यमेतद्, अव्यक्तानि तु विद्यन्ते, यथा कस्यचित्पुंसः हृत्पूरकव्यतिमिश्रमदिरातिपानपित्तोदयाकुलीकृतान्त:करणविशेषस्याव्यक्ता चेतना, न चैतावता तस्याचिद्रूपता, एवमत्राप्यक्तचेतनासम्भवोऽभ्युपगन्तव्यः, ननु चात्रोच्छ्वासादिकमव्यक्तचेतनालिङ्गमस्ति, न चेह तथाविधं किञ्चिच्चेतनालिङ्गमस्ति, नैतदेवम्, इहापि समानजातीयलतोद्भेदादिकमर्शोमांसाङ्कुरवच्चेतनाचिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं विशिष्ट पुष्पफलप्रदत्वेन स्पष्टं साधयिष्यतेच, ततोऽव्यक्तो-पयोगादिलक्षणसद्भावात् सचित्ता पृथिवीति स्थितम् ।। ननु चाश्मलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वमित्यत आह अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिळं । एवं जीवाणुगयं पुढविसरीरं खरं होइ ॥८५ ।। यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम्, एवं जीवाणुगतं पृथिवीशरीरमपीति ।। साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा तिनिवि रासी वीसुं लोया असंखिज्जा ॥८६॥ तत्र पृथिवीकायिकाश्चतुर्द्धा, तद्यथा-बादरा: पर्याप्ता अपर्याप्ताश्च तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च, तत्र ये बादरा: पर्याप्तकास्ते संवर्तिलोकप्रतरासंख्येयभागमात्रवर्त्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपि राशयः प्रत्येकमसंख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथानिर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः, यत उक्तम्-'सव्वत्थोवा बादरपुढविकाइया पजत्ता, बादरपुढविकाइया अपजत्ता असंखेज्जगुणा सुहमपुढविकाइया अप-जत्ता असंखेजगुणा सुहुमपुढविकाइया पज्जत्ता असंखेजगुणा' ।। (सर्वस्तोका बादरपृथ्वीकायिका: पर्याप्ता: बादरपृथ्वीकायिका अपर्याप्ता असंख्येयगुणा: सूक्ष्मपृथ्वीकायिका: अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकायिकाः पर्याप्ता असंख्येयगुणाः ।) श्री आचारांग सूत्रम् (०६०)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy