________________
प्रकारान्तरेणापि राशित्रयस्य परिमाणं दर्शयितुमाह
पत्थेण व कुडवेण व जह कोइ मिणिज्ज सव्वधन्नाई । एवं मविज्जमाणा हवंति लोया असंखिज्जा ॥८७॥
यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान् पृथिवीकायिकजीवान् यदि मिनोति ततोऽसंख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति ।। पुनरपि प्रकारान्तरेण परिमाणमाह
लोगागासपएसे इक्किक्कं निक्खिवे पुढविजीवं । एवं मविज्जमाणा हवंति लोआ असंखिज्जा ॥ ८८ ॥ स्पष्टा ।। साम्प्रतं कालतः प्रमाणं निर्द्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मबादरत्वमाह
निउणो उ होइ कालो तत्तो निउणयरयं हवइ खित्तं । अंगुलसेढीमित्ते ओसप्पिणीओ असंखिज्जा ॥८९॥
'निपुण:' सूक्ष्मः 'काल:' समयात्मकः, ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽङ्गुलीश्रेणीमात्रक्षेत्र प्रदेशानां समयापहारेणासंख्येया उत्सर्पिण्यवसर्पिण्योऽपक्रामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम् ।। प्रस्तुतं कालतः परिमाणं दर्शयितुमाह
अणुसमयं च पवेसो निक्खमणं चेव पुढविजीवाणं । काए कार्यट्ठिइया चउरो लोया असंखिज्जा ।। ९० ।।
तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्क्रामन्ति च, एकस्मिन् समये कियतां निष्क्रमः प्रवेशश्च १ - २, तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३, तथा कियती च कायस्थिति ४ रित्येते चत्वारो विकल्पाः कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परिणता अप्यसंख्येयलोकाकाशप्रदेशपरिमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकाशप्रदेशपरिमाणं कालं तत्र तत्रोत्पद्यन्त इति, एवं
श्री आचारांग सूत्रम्
(०६१)