SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रकारान्तरेणापि राशित्रयस्य परिमाणं दर्शयितुमाह पत्थेण व कुडवेण व जह कोइ मिणिज्ज सव्वधन्नाई । एवं मविज्जमाणा हवंति लोया असंखिज्जा ॥८७॥ यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान् पृथिवीकायिकजीवान् यदि मिनोति ततोऽसंख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति ।। पुनरपि प्रकारान्तरेण परिमाणमाह लोगागासपएसे इक्किक्कं निक्खिवे पुढविजीवं । एवं मविज्जमाणा हवंति लोआ असंखिज्जा ॥ ८८ ॥ स्पष्टा ।। साम्प्रतं कालतः प्रमाणं निर्द्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मबादरत्वमाह निउणो उ होइ कालो तत्तो निउणयरयं हवइ खित्तं । अंगुलसेढीमित्ते ओसप्पिणीओ असंखिज्जा ॥८९॥ 'निपुण:' सूक्ष्मः 'काल:' समयात्मकः, ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽङ्गुलीश्रेणीमात्रक्षेत्र प्रदेशानां समयापहारेणासंख्येया उत्सर्पिण्यवसर्पिण्योऽपक्रामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम् ।। प्रस्तुतं कालतः परिमाणं दर्शयितुमाह अणुसमयं च पवेसो निक्खमणं चेव पुढविजीवाणं । काए कार्यट्ठिइया चउरो लोया असंखिज्जा ।। ९० ।। तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्क्रामन्ति च, एकस्मिन् समये कियतां निष्क्रमः प्रवेशश्च १ - २, तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३, तथा कियती च कायस्थिति ४ रित्येते चत्वारो विकल्पाः कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परिणता अप्यसंख्येयलोकाकाशप्रदेशपरिमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकाशप्रदेशपरिमाणं कालं तत्र तत्रोत्पद्यन्त इति, एवं श्री आचारांग सूत्रम् (०६१)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy