SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्व्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ? ।। १ ।। स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः । नाहं कर्तेति भूतानां यः पश्यति स पश्यति ॥ २ ॥ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान्मयूरान् । कश्चोत्पलेषु दलसन्निचयं करोति, को वा करोति (दधाति) विनयं कुलजेषु पुंस्सु ? ।। ३ ।।' तथाऽन्ये ऽभिदधते - समस्तमेतज्जीवादीश्वरात्प्रसूतं, तस्मादेव स्वरूपेऽवतिष्ठते, कः पुनरयमीश्वरः ?, अणिमाद्यैश्वर्ययोगादीश्वरः, उक्तं च- 'अज्ञो (न्यो) जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छे-च्छ्वभ्रं वा स्वर्गमेव वा ॥ १ ॥ ' तथा अन्ये ब्रुवते न जीवादयः पदार्था: कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ?, आत्मनः, कः पुनरयमात्मा १, आत्माद्वैतवादिनां विश्वपरिणतिरूपः आत्मायत उक्तञ्च - 'एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १ ॥ ' तथा 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य' मित्यादि । एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ॥ तथा अक्रियावादिनो - नास्तित्वववादिन:, तेषामपि जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः स्वपरभेदद्वयेन तथा कालयदृच्छानियतिस्वभावेश्वरात्मभिः षड्भिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति, तद्यथा - नास्ति जीवाः स्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धौ एवं यदृच्छानियत्यादिष्वपि प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येकं द्वादशैते, सप्त द्वादशका-श्चतुरशीतिरिति ८४ । अयमत्रार्थ :- नास्ति जीवः स्वतः कालत इति इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा ?, न चात्मनस्तादृगस्ति किञ्चिल्लक्षणं येन सत्तां प्रतिपद्येमहि, नापि कार्य्यमणूनामिव महीध्रादि सम्भवति, यच्च लक्षणकार्याभ्यां नाभि-गम्यते वस्तु तन्नास्त्येव, वियदिन्दीवरवत्, श्री आचारांग सूत्रम् (०३७) -
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy