________________
तस्मानास्त्यात्मेति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं बिभर्ति गगनारविन्दादिकं तत्परतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वार्वाग्भागसूक्ष्मत्वाच्चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उक्तं च ‘यावद् दृश्यं परस्तावद्भागः स च न दृश्यते' इत्यादि, तथा यदृच्छातोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा ?, अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदृच्छा, 'अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः ॥१॥ सत्यं पिशाचा: स्म वने वसामो, भेरिं कराग्रैरपि न स्पृशामः । यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचा: परिताडयान्ते ॥२॥ यथा काकतालीयमबुद्धिपूर्वक, न काकस्य बुद्धिरस्तिमयि तालं पतिष्यति, नापि तालस्याभिप्राय:-काकोपरि पतिष्यामि, अथ च तत्तथैव भवति, एवमन्यदप्यतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम्, एवं सर्वं जातिजरामरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पमवसेयमिति । एवं नियतिस्वभावेश्वरात्मभिरप्यात्मा निराकर्त्तव्यः ।।
तथाऽज्ञानिकानां सप्तषष्टिर्भेदाः, ते चामी-जीवादयो नव पदार्था उत्पत्तिश्च दशमी सत् असद् सदसत् अवक्तव्य: सदवक्तव्य: असदवक्तव्यः सदसदवक्तव्यः इत्येतैः सप्तमिः प्रकारैर्विज्ञातुं न शक्यन्ते न च विज्ञातैः प्रयोजनमस्ति. भावना चेयम्-सन् जीव इति को वेत्ति ? किं वा तेन ज्ञातेन ?, असन् जीव इति को जानाति ? किं वा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येकं सप्त विकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा-सती भावोत्पत्तिरिति को जानाति ? किं वाऽन्या ज्ञातया ? एवमसती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति ? किं वाऽनया ज्ञातयेति, शेषविकल्पत्रयमुत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न सम्भवतीति नोक्तम्,
श्री आचारांग सूत्रम्
(०३८)