Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 50
________________ यदनुभवति तदर्शयति-विरूपं-बीभत्सममनोज्ञं रूपं-स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाता: स्पर्शा इत्युक्ताः, 'तात्स्थ्यात्तद्वय्पदेश' इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् ‘प्रत्तिसंवेदयति' अनुभवति, प्रतिग्रहणात्प्रत्येकं शारीरान्मानसांश्च दुःखोपनिपाताननुभवतीत्युक्तं भवति, स्पर्शग्रहणं चेह सर्वसंसारान्तर्वर्तिजीवराशिसङ्ग्रहार्थं, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वाद्, अ(त)त्रेदमपि वक्तव्यं-सर्वान्विरूपरूपान् रसगन्धरूपशब्दान् प्रतिसंवेदयतीति, विरूपरूपत्वं च स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभूताद्भवतीति वेदितव्यं, विचित्रकर्मोदयाच्चापरिज्ञातकर्मा संसारी स्पर्शादीन्विरूपरूपांस्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च-'तैः कर्मभिः स जीवो विवश: संसारचक्रमुपयाति । द्रव्यक्षेत्राद्धाभावभिन्नमावर्त्तते बहुशः ॥१॥ नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च । पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ॥२॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक्षु भयक्षुत्तृड्वधादिदुःखं सुखं चाल्पम् ।।३।। सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सुखमेव हि देवाना दु:खं स्वल्पं च मनसि भवम् ।।४।। कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । अन्ध इव दुर्गमार्गे भ्रमति हि संसारकांतारे ॥५॥ दुःखप्रतिक्रियार्थं सुखाभिलाषाच्च पुनरपि तु जीव: । प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः ॥६॥ बध्नाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म । तेनाथ पच्यते पुनरग्नेरग्निं प्रविश्येव ।।७।। एवं कर्माणि पुनः पुनः स बध्नस्तथैव मुञ्चश्च । सुखकामो बहुदुःखं संसार-मनादिकं भ्रमति ।।८।। एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् । संसारमहत्त्वाधार्मिकत्वदुष्कर्मबाहुल्यैः ।।९।। आर्यो देश: कुलरूपसम्पदायुश्च दीर्घमारोग्यम् । यतिसंसर्ग: श्रद्धा धर्मश्रवणं च मतितेक्ष्ण्यम् ॥१० ।। एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्स । कुपथाकुलेऽर्हदुक्तोऽतिदुर्लभो जगति सन्मार्गः ॥११॥' यदि वा योऽयं पुरुषः श्री आचारांग सूत्रम् (०४९)

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146