________________
यदनुभवति तदर्शयति-विरूपं-बीभत्सममनोज्ञं रूपं-स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाता: स्पर्शा इत्युक्ताः, 'तात्स्थ्यात्तद्वय्पदेश' इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् ‘प्रत्तिसंवेदयति' अनुभवति, प्रतिग्रहणात्प्रत्येकं शारीरान्मानसांश्च दुःखोपनिपाताननुभवतीत्युक्तं भवति, स्पर्शग्रहणं चेह सर्वसंसारान्तर्वर्तिजीवराशिसङ्ग्रहार्थं, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वाद्, अ(त)त्रेदमपि वक्तव्यं-सर्वान्विरूपरूपान् रसगन्धरूपशब्दान् प्रतिसंवेदयतीति, विरूपरूपत्वं च स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभूताद्भवतीति वेदितव्यं, विचित्रकर्मोदयाच्चापरिज्ञातकर्मा संसारी स्पर्शादीन्विरूपरूपांस्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च-'तैः कर्मभिः स जीवो विवश: संसारचक्रमुपयाति । द्रव्यक्षेत्राद्धाभावभिन्नमावर्त्तते बहुशः ॥१॥ नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च । पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ॥२॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक्षु भयक्षुत्तृड्वधादिदुःखं सुखं चाल्पम् ।।३।। सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सुखमेव हि देवाना दु:खं स्वल्पं च मनसि भवम् ।।४।। कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । अन्ध इव दुर्गमार्गे भ्रमति हि संसारकांतारे ॥५॥ दुःखप्रतिक्रियार्थं सुखाभिलाषाच्च पुनरपि तु जीव: । प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः ॥६॥ बध्नाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म । तेनाथ पच्यते पुनरग्नेरग्निं प्रविश्येव ।।७।। एवं कर्माणि पुनः पुनः स बध्नस्तथैव मुञ्चश्च । सुखकामो बहुदुःखं संसार-मनादिकं भ्रमति ।।८।। एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् । संसारमहत्त्वाधार्मिकत्वदुष्कर्मबाहुल्यैः ।।९।। आर्यो देश: कुलरूपसम्पदायुश्च दीर्घमारोग्यम् । यतिसंसर्ग: श्रद्धा धर्मश्रवणं च मतितेक्ष्ण्यम्
॥१० ।। एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्स । कुपथाकुलेऽर्हदुक्तोऽतिदुर्लभो जगति सन्मार्गः ॥११॥' यदि वा योऽयं पुरुषः
श्री आचारांग सूत्रम्
(०४९)