________________
स्थानानि, अनेकरूपत्वं चासां संवृतविवृतोभयशीतोष्णोभयरूपतया, यदिवा चतुरशीतियोनिलक्षभेदेन, ते चामी चतुरशीतिर्लक्षा:- ‘पुढवीजलजलनमारुय एक्केक्के सत्त सत्त लक्खाओ । वण पत्तेय अणंते दस चोद्दस जोणिलक्खाओ ॥१।। विगलिंदिएसु दो दो चउरो चउरो य णारयसुरेसुं । तिरिएसु हुंति चउरो चोद्दस लक्खा य मणुएसु ॥२॥ (पृथ्वीजलज्वलनमारुतेषु एकैकस्मिन् सप्त सप्त लक्षाः । प्रत्येकवने अनन्ते दश चतुर्दश योनिलक्षाः ।।१।। विकलेन्द्रियेषु द्वे द्वे चतस्रश्चतस्रश्च नारकसुरेषु । तिरश्चि भवन्ति चतस्रश्चतुर्दश लक्षाश्च मनुष्येषु ॥२।।) तथा शुभाशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्श्यते'सीयादी जोणीओ चउरासीती य सयसहस्साई । असुभाओ य सुभाओ तत्थ इमा जाण ॥१॥ अस्संखाउमणुस्सा राईसर संखमादिआऊणं । तित्थगरनामगोत्तं सव्वसुहं होइ नायव्वं ।।२।। तत्थवि य जाइसंपन्नतादि सेसाउ हुँति असुभाओ । देवेसु किव्विसादी सेसाओ हंति उ सुभाओ ॥३।। पंचिंदियतिरिएसुं हयगयरयणे हवंति उ सुभाओ । सेसाओ अ सुभाओ सुभवण्णेगिंदियादीया ॥४॥ देविंदचक्कवट्टित्तणाई मोत्तुं च तित्थगरभावं । अणगारभाविताविय सेसा उ अणंतसो पत्ता ।।५।।' (शीताद्या योनयश्चतुरशीतिश्च शतसहस्राणि । अशुभाः शुभाश्च तत्र शुभा इमा जानीहि ॥१॥ असंख्यायुर्मनुष्याः संख्यायुष्काणां राजेश्वराद्याः । तीर्थकरनामगोत्रं सर्वशुभं भवति ज्ञातव्यम् ।।२।। तत्रापि च जातिसम्पन्नताद्याः शेषा भवन्त्यशुभाः । देवेषु किल्बिषाद्याः शेषा भवन्ति च शुभाः ॥३।। पञ्चेन्द्रियतिर्यक्षु हयगजरत्नयोर्भवति शुभा । शेषाश्च शुभाः शुभवर्णैकेन्द्रियाद्याः ॥४॥ देवेन्द्रचक्रवर्तित्वे मुक्त्वा तीर्थकरभावं च । भावितानगारतामपि च शेषास्त्वनन्तशः प्राप्ताः ।।५।।) एताश्चानेकरूपा योनिर्दिगादिषु पर्यटन्नपरिज्ञातकर्माऽसुमान् ‘संधेईत्ति सन्धयति-सन्धिं करोत्यात्मना, सहाविच्छेदेन संघट्टयतीत्यर्थः, ‘संधावई'त्ति वा पाठान्तरं, ‘सन्धावति' पौन:पुन्येन तासु(ता:) गच्छतीत्यर्थः, तत्सन्धाने च
श्री आचारांग सूत्रम्
(०४८)