Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 46
________________ कायस्य सम्भवेन जीवानां गमनागमनमावेदितं भवति, य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, स एवासुमान् 'कर्मवादी' कर्मज्ञानावरणीयादि तद्वदितुं शीलमस्येति, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्वं गत्यादियोग्यानि कर्माण्यददते, पश्चात्तासु तासु विरूपरूपासु योनिषूत्पद्यन्ते, कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमिति । अनेन च कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः । तथा च एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापार:, स च क्रियारूपः, अत: कर्मणः कार्यभूतस्य वदनात्तत्कारणभूताया: क्रियाया अप्यसावेव परमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः-'जाव णं भंते ! एस जीवे सया समियं एयइ वेयइ चलति फंदति घट्टति तिप्पति जाव तं तं भावं परिणमति ताव च णं अट्ठविहबंधए वा सत्तविह-बंधए वा छव्विहबंधए वा एगविहबंधए वा, णो णं अबंधए'त्ति, (यावद् भदन्त ! एष जीव: सदा समितमेजते व्येजते चलति स्पन्दते तिप्यति यावत् तं तं भावं परिणमति तावच्च अष्टविधबन्धको वा सप्तविधबन्धको वा षड्वि-धबन्धको वा एकविधबन्धको वा, नाबन्धकः ।) एवं च कृत्वा य एव कर्मवादी स एव क्रियावादीति, अनेन च सांख्याभिमतमात्मनोऽक्रिया-वादित्वं निरस्तं भवति ।५।। साम्प्रतं पूर्वोक्तां क्रियामात्मपरिणतिरूपां विशिष्टकालाभिधायिना तिप्रत्ययेनाभिदधदहंप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधिमनः पर्यायकेवलज्ञान जातिस्मरणव्यतिरिकेणैव त्रिकालसंस्प-शिना मतिज्ञानेन सद्भावावगमं दर्शयितुमाह अकरिस्सं चऽहं कारवेसुं चऽहं, करओ आवि समणुन्न भविस्सामि ।।सू०६॥ इह भूतवर्त्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिनव विकल्पा: संभवन्ति, ते चामी-अहमकार्षमचीकरमहं कुर्वन्तमन्यमनुज्ञासिषमहं करोमि कारयाम्यनुजानाम्यहमिति करिष्याम्यहं कारयिष्याम्यहं श्री आचारांग सूत्रम् (०४५)

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146