________________
कायस्य सम्भवेन जीवानां गमनागमनमावेदितं भवति, य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, स एवासुमान् 'कर्मवादी' कर्मज्ञानावरणीयादि तद्वदितुं शीलमस्येति, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्वं गत्यादियोग्यानि कर्माण्यददते, पश्चात्तासु तासु विरूपरूपासु योनिषूत्पद्यन्ते, कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमिति । अनेन च कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः । तथा च एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापार:, स च क्रियारूपः, अत: कर्मणः कार्यभूतस्य वदनात्तत्कारणभूताया: क्रियाया अप्यसावेव परमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः-'जाव णं भंते ! एस जीवे सया समियं एयइ वेयइ चलति फंदति घट्टति तिप्पति जाव तं तं भावं परिणमति ताव च णं अट्ठविहबंधए वा सत्तविह-बंधए वा छव्विहबंधए वा एगविहबंधए वा, णो णं अबंधए'त्ति, (यावद् भदन्त ! एष जीव: सदा समितमेजते व्येजते चलति स्पन्दते तिप्यति यावत् तं तं भावं परिणमति तावच्च अष्टविधबन्धको वा सप्तविधबन्धको वा षड्वि-धबन्धको वा एकविधबन्धको वा, नाबन्धकः ।) एवं च कृत्वा य एव कर्मवादी स एव क्रियावादीति, अनेन च सांख्याभिमतमात्मनोऽक्रिया-वादित्वं निरस्तं भवति ।५।। साम्प्रतं पूर्वोक्तां क्रियामात्मपरिणतिरूपां विशिष्टकालाभिधायिना तिप्रत्ययेनाभिदधदहंप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधिमनः पर्यायकेवलज्ञान जातिस्मरणव्यतिरिकेणैव त्रिकालसंस्प-शिना मतिज्ञानेन सद्भावावगमं दर्शयितुमाह
अकरिस्सं चऽहं कारवेसुं चऽहं, करओ आवि समणुन्न भविस्सामि ।।सू०६॥
इह भूतवर्त्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिनव विकल्पा: संभवन्ति, ते चामी-अहमकार्षमचीकरमहं कुर्वन्तमन्यमनुज्ञासिषमहं करोमि कारयाम्यनुजानाम्यहमिति करिष्याम्यहं कारयिष्याम्यहं
श्री आचारांग सूत्रम्
(०४५)