________________
कुर्वन्तमन्यमनुज्ञास्याम्यहमिति, एतेषां च मध्ये आद्यन्तौ सूत्रेणैवोपात्तौ, तदुपादानाच्च तन्मध्यपातिनां सर्वेषां ग्रहणम्, अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः ‘कारवेसुं चऽह' मिति सूत्रेणोपात्तः, एते च चकारद्वयोपादानादपिशब्दोपादानाच्च (चकारद्वयापिशब्दोपादानान्मनो० प्र. ) मनोवाक्कायैश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्ति, अयमत्र भावार्थ:- अकार्ष - महमित्यत्राहमित्यनेनात्मोल्लेखिना विशिष्टक्रियापरिणतिरूप आत्माऽभिहितः, ततश्चायं भावार्थो भवति स एवाहं येन मयाऽस्य देहादेः पूर्वं यौवनावस्थायामिन्द्रियवशगेन विषयविषमोहितान्धचेतसा तत्तदकार्य्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम्, उक्तं च- 'विहवावलेवनडिएहिं जाई कीरंति जोव्वणमएणं । वयपरिणामे सरियाई ताइं हियए खुडुक्कंति ॥ १ ॥ ' (विभवावलेपनटितैर्यानि क्रियन्ते यौवनमदेन । वय: परिणामे स्मृतानि तानि हृदये शल्यायन्ते ।। १ ।। ) तथा 'अचीकरमह 'मित्यनेन परोऽकार्यादौ प्रवर्त्तमानो मया प्रवृत्तिं कारितः, तथा कुर्वन्तमन्यमनुज्ञात-वानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानं, तथा 'करोमी' त्यादिना वचनत्रिकेण वर्त्तमानकालोल्लेख:, तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविष्यामीत्यनागतकालोल्लेखः, अनेन च कालत्रयसंस्पर्शेन देहेन्द्रियातिरिक्तस्यात्मनो भूतवर्त्तमानभविष्यत्कालपरिणतिरूपस्यास्तित्वावगतिरावेदिता भवति, सा च नैकान्तक्षणिकनित्यवादिनां सम्भवतीत्यतोऽनेन ते निरस्ताः, क्रियापरिणामेनात्मनः परिणामित्वाभ्युपगमादिति, एतदनुसारेणैव सम्भवानुमानादतीतानागतयोरपि भवगेरात्मास्तित्वमवसेयम् । यदिवा - अनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूतायाः क्रियायाः स्वरूपमावेदितमिति ॥ ६ ॥ अथ किमेतावत्य एव क्रिया उतान्या अपि सन्तीति, एता एवेत्याह
एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति ।। सू०७ ।।
'एयावंती'त्यादि एतावन्तः सर्वेऽपि 'लोके' प्राणिसङ्घाते 'कर्म्म
श्री आचारांग सूत्रम्
(०४६)