________________
कर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थातीर्थानन्तपरम्परादिसिद्धप्रतिपादकं, तान्वन्दित्वेति सम्बन्धः सर्वत्र योज्य:, रागद्वेषजितो जिना:-तीर्थकृ तस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, 'वन्दित्वे'ति क्त्वाप्रत्ययस्योत्तरक्रिया-सव्यपेक्षत्वादुत्तरक्रियामाह'आचारस्य' यथार्थनाम्नः ‘भगवत' इति धर्मार्थप्रयत्नगुणभाजस्तस्येवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिनियुक्तिस्तां 'कीर्तयिष्ये' (चान्द्रमतेन णिज उभयपदभावात्) अभिधास्ये इति अन्तस्तत्त्वेन निष्पन्नां नियुक्तिं बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः ॥१॥ यथाप्रतिज्ञातमेव बिभणिषुर्निक्षेपार्हाणि पदानि तावत् सुहृद्भूत्वाऽऽचार्य: संपिण्ड्य कथयति
आयार अंग सुयखंध बंभ चरणे य तहेव सत्थे य । परिण्णाए संणाए निक्खेवो तह दिसाणं च ॥२॥
आचारअङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्त्तव्य इति । तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दा नामनिष्पन्ने द्रष्टव्याः, अङ्गश्रुतस्कन्धशब्दा ओघनिष्पन्ने, संज्ञादिक्शब्दौ सुत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति ।।२।। एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आहचरणदिशावज्जाणं निक्खेवो चउविहो (क्कओ) य नायव्वो । चरणंमि छव्विहो खलु सत्तविहो होइ उ दिसाणं ॥३॥
चरणदिग्वर्जानां चतुर्विधो निक्षेपः, चरणस्य षड्विधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथासम्भव-मायोज्यम् ।।३।। नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाह
जत्थ य जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं ।
श्री आचारांग सूत्रम्
(०१३)