________________
सूत्रानुगमश्चेति, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यिनुगमः उपोद्घातनिर्युक्त्यनुगम: सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यिनुगमो निक्षेप एव सामान्यविशेषाभिधानयोरोधनिष्पन्ननामनिष्पन्नाभ्यां निक्षेपाभ्यामनुगतः सूत्राक्षेपया वक्ष्यमाणलक्षणश्चेति, उपोद्घातनियुक्त्यिनुगम-श्चाभ्यां द्वाररगाथाभ्यामनुगन्तव्यः, तद्यथा-‘उद्देसे णिद्देसे य णिग्गमे खेत्त-कालपुरिसे य । कारणपच्चयलक्खण णए समोयारणाऽणुमए ॥१॥ किं कतिविहं कस्स कहिं केसु कह केच्चिरं हवइ कालं । कइ संतरमविरहियं भवागरिस फासणणिरुत्ती ॥२॥ (उद्देशो निर्देशश्च निर्गमः क्षेत्रं काल: पुरुषश्च । कारणं प्रत्यय: लक्षणं नया: समवतार: अनुमतम् ।।१।। किं कतिविध कस्य क्व केषु कियच्चिर भवति कालम् । कति सान्तरमरहितं भावकर्षाः स्पर्शना निरुक्तिः ।।२।।) सूत्रस्पर्शिक-निर्युक्त्यनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स च सूत्रोच्चारणरूप: पदच्छेदरूपश्चेति । अनन्तधर्माध्यासितं वस्त्वेकेनैव धर्मेण नयन्ति-परिच्छिन्दन्तीति ज्ञानविशेषा नया: ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोगं किञ्चिद् बिभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थं प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थं सम्बन्धाभिधेयप्रयोजनप्रतिपादिकां नियुक्तिकारो गाथामाह
वंदित्तु सव्वसिद्धे जिणे अ अणुओगदायए सव्वे । आयारस्स भगवओ निज्जुत्तिं कित्तइस्सामि ॥१॥ __ तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्यभिधेयवचनं, नियुक्तिं करिष्ये इति प्रयोजनकथनमिति तात्पर्यार्थः, अवयवार्थस्तु 'वन्दित्वे'ति ‘वदि अभिवादन-स्तुत्यो रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोश्च मन:पूर्वकत्वात्करणत्रयेणापि नमस्कार आवेदितो भवति, सितं ध्मातमेषामिति सिद्धा:-प्रक्षीणाशेष
श्री आचारांग सूत्रम्
(०१२)