________________
जत्थविय न जाणिज्जा चउक्कयं निक्खिवे तत्थ ॥४॥
'यत्र' चरणदिक्शब्दादौ यह निक्षेप-क्षेत्रकालादिकं जानीयात्तं तत्र निरवशेष निक्षेपेद्, यत्र तु निरवशेषं न जानीयादाचाराङ्गादौ तत्रापि नामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षेपेदित्युपदेश इति गाथार्थः ।।४ ।। प्रदेशान्तरप्रसिद्धस्यार्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽभ्यधायि
आयारे अंगंमि य पुवुद्दिट्ठो चउक्कनिक्खेवो । नवरं पुण नाणत्तं भावायारंमि तं वोच्छं ॥५॥
क्षुल्लिकाचारकथायामाचारस्य पूर्वोदिष्टो निक्षेपः अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेष: सोऽभिधीयते- 'भावाचारविषय' सति ।।५।। यथाप्रतिज्ञातमाह
तस्सेगट्ठ पवत्तण पढमंग गणी तहेव परिमाणे । समोयारे सारो य सत्तहि दारेहि नाणत्तं ॥६॥ ..
'तस्य' भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केन प्रकारेण प्रवृत्तिः-पवर्तनमाचारस्याभूत् तच्च वाच्यम्, तथा प्रथमाङ्गता च वाच्या, तथा गणी-आचार्यस्तस्य कतिविधं स्थानमिदमिति च वाच्यं, तथा परिमाणम्' इयत्ता वाच्या, तथा किं क्व समवतरतीत्येतच्च वाच्यं, तथा सारश्च वाच्यः, इत्येभिः सप्तभिरैः पूर्वस्माद्भावाचारादस्य भेदोनानात्वमिति पिण्डार्थः ।।६।। अवयवार्थं तु नियुक्तिकृदेवाभिधातुमाह
आयारो आचालो आगालो आगरो य आसासो । आयरिसो अंगति य आइण्णाऽऽज्जाइ आमोक्खा ॥७॥ . आचर्यते आसेव्यत इत्याचारः, स च नामादिचतुर्द्धा, तत्र ज्ञशरीर-भव्यशरीरतद्व्यतिरिक्तो द्रव्याचारोऽनया गाथयाऽनुसतव्य:‘णामण-धोयण-वासण-सिक्खावण-सुकरणाविरोहीणि । दव्वाणि जाणि लोए दव्वायारं वियाणाहि ॥१॥' (नामनधावनवासनशिक्षणसुकरणाविरोधीनि । द्रव्याणि यानि लोके द्रव्याचार विजानीहि
श्री आचारांग सूत्रम्
(०१४)